अनुशासनपर्व

अध्यायः ८८

Anusasana Parva (Sanskrit) · Adhyaya 88
अक्षर का आकार

युधिष्ठिर उवाच।

तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा।
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया।
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः।।

स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन।
तदेव चिन्तयामास च्यवनस्य विचेष्टितम्।।

अथ शून्येन मनसा प्रविवेश गृहं नृपः।
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम्।।

विस्मितौ तमृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च।
दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूवतुः।।

यथास्थानं ततो गत्वा तत्पादौ संववाहतुः।
अथापरेण पार्श्वेन सुष्वाप स महामुनिः।।

तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान्।
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ।।

प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते।
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत।।

तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ।
शतपाकेन तैलेन महार्हेणोपतस्थतुः।।

ततः सुखासीनमृषिं वाग्यतौ संववाहतुः।
न च पर्याप्तमित्याह भार्गवः सुमहातपाः।।

यदा तौ निर्विकारौ तु लक्षमायास भार्गवः।
तत उत्थाय सहसा स्नानशालां विवेश ह।।

क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्।
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत।।

स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा।
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ।।

अथ स्नातः स भगवान्सिंहासनगतः प्रभुः।
दर्शयामास कुशिकं सभार्यं कुरुनन्दन।।

संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्।
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत्।।

आनीयतामिति मुनिस्तं चोवाच नराधिपम्।
स राजा समुपाजह्रे तदन्नं सह भार्यया।।

मांसप्रकारान्विविधाञ्शाकानि विविधानि च।
लेह्यपिष्टविकारांश्च पानकानि लघूनि च।।

रसालापूपकांश्चित्रान्मोदकानथ षड्रसान्।
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम्।।

फलानि च विचित्राणि राजभोज्यानि भूरिशः।
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च।।

गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्।
सर्वमाहारयामास राजा शापभयान्मुनेः।।

अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्।
ततः सर्वं समानीय तच्च शय्यासनं मुनिः।।

वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह।
सर्वमादीपयामास च्यवनो भृगुनन्दनः।।

न च तौ चक्रतुः क्रोधं दम्पती सुमहाव्रतौ।
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत्।।

तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा।
सभार्यो वाग्यतः श्रीमान्न चकोपं समाविशत्।।

नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि।।
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः।।

वस्त्रं च विविधाकारमभवत्समुपार्जितम्।
न शशाक ततो द्रष्टमन्तरं च्यवनस्तदा।।

पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्।
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्।।

तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्।
क्रीडारथोस्तु भगवन्नुत साङ्ग्रामिको रथः।।

इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः।
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्।।

सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः।
सायुधः सपताकश्च शक्तीकनकयष्टिमान्।।

किंकिणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः।
गदास्वङ्गनिबद्धश्च परमेषुशतान्वितः।।

ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्।
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा।।

त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्।
सर्वमेतत्तथा दत्त्वा नृपो वाक्यमऽथाब्रवीत्।।

भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन।
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः।।

एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम्।
इतः प्रभृति यातव्यं पदकम्पदकं शनैः।।

श्रमो मम यथा न स्यात्तथा मच्छन्दचारिणौ।
सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु।।

नोत्सार्याः पथिकाः केचित्तेभ्योदास्ये वसु ह्यहम्।
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्तिमां पथि।।

सर्वान्दास्याम्यशेषेण धनं रत्नानि चैव हि।
क्रियतां निखिलेनैतन्मा विचारय पार्थिव।।

तस्य तद्वचनं श्रुत्वा राजा भृत्यांस्तथाऽब्रवीत्।
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः।।

ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्।
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः।।

अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः।
हाहाभूतं च तत्सर्वमासीन्नगरमार्तवत्।।

तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ।
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः।।

वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ।
कथंचिदूहतुर्धैर्याद्दम्पती तं रथोत्तमम्।।

बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम्।
ददृशाते महाराज पुष्पिताविव किंशुकौ।।

तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः।
अभिशापभयत्रस्तो न तं किञ्चिदुवाच ह।।

द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम्।
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शुक्नुमः।।

अहो भगवतो वीर्यं महर्षेर्भावितात्मनः।
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम्।।

श्रान्तावपि हि कच्छ्रेण रथमेनं समूहतुः।
न चैतयोर्विकारं वै ददर्शं भृगुनन्दनः।।

भीष्म उवाच।

ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः।
वसु विश्राणयामास यथा वैश्रवणस्तथा।।

तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत्।
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः।।

अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह।
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह।।

स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया।
ददामि वां वरं श्रेष्ठं तं ब्रूतामिति भारत।।

सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसतम।।

अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह।
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेह भार्गव।।

अथ तौ भगवान्प्राह प्रहृष्टश्च्यनस्तदा।
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति।।

रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्।
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव।।

गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि।
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप।।

न च मन्युस्त्वया कार्यः श्रेयस्त्वां समुपस्थितम्।
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति।।

इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना।
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्।।

न मे मन्युर्महाभाग पूतौ स्वो भगवंस्त्वया।
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ।।

प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः।
तान्न पश्यामि गात्रेषु स्वस्थोस्मि सह भार्यया।।

इमां च देवीं पश्यामि वपुषाऽप्सरसोपमाम्।
श्रिया परमया युक्ता तथा दृष्टा पुरा मया।।

तव प्रसादसंवृत्तमिदं सर्वं महामुने।
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम।।

इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा।
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप।।

इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्।
प्रययौ वपुषा युक्तो नगरं देवराजवत्।।

तत एनमुपाजग्मुरमात्याः सपुरोहिताः।
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा।।

तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्।
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः।।

ततः प्रविश्य नगरं कृत्वा पौर्वाह्णिकीः क्रियाः।
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः।।

ततस्तु तौ नवमभिवीक्ष्य यौवनं
परस्परं विगतजराविवामरौ।
ननन्दतुः शयनगतौ वपुर्धरौ
श्रिया युतौ द्विजवरदत्तया तदा।।

अथाप्युषिर्भृगुकुलकीर्तिवर्धन-
स्तपोधनो वनमभिराममृद्धिमत्।
मनीषया बहुविधरत्नभूषितं
ससर्ज यन्न पुरि शतक्रतोरपि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टाशीष्टितमोऽध्यायः।। 88 ।।