अनुशासनपर्व

अध्यायः ८७

Anusasana Parva (Sanskrit) · Adhyaya 87
अक्षर का आकार

संशयो मे महाप्राज्ञ सुमहान्सागरोपम।
तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि।।

कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो।
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि।।

`ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम्।'
कथमेष समुत्पन्नो रामः सत्यपराक्रमः।
कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत।।

तदस्य सम्भवं राजन्निखिलेनानुकीर्तय।
कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत्।।

अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः।
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि।।

कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्।
एष दोषो महाप्राज्ञ तत्त्वं व्याख्यातुमर्हसि।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
च्यवनस्य च संवादं कुशिकस्य च भारत।।

एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा।
आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः।।

निश्चित्य मनसा सर्वं गुणदोषबलाबलम्।
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः।।

च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत्।
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ।।

कुशिक उवाच।

भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते।
प्रदानकाले कन्यानामुच्यते च सदा बुधैः।।

यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन।
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि।।

भीष्म उवाच।

अथासनमुपादाय च्यवनस्य महामुनेः।
कुशिको भार्यया सार्धमाजगाम यतो मुनिः।।

प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्।
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः।।

ततः स राजा च्यवनं मधुपर्कं यथाविधि।
ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः।।

सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत्।
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे।।

यदि राज्यं यदि धनं यदि गाः संशितव्रत।
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते।।

इदं गृहमिदं राज्यमिदं धर्मासनं च ते।
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवान्स्त्रिया।।

एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा।
कुशिकं प्रत्युवाचेदं मुदा परमया युतः।।

न राज्यं कामये राजन्न धनं न च योषितः।
न च गा न च वै देशान्न यज्ञं श्रूयतामिदम्।।

नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते।
परिचर्योस्मि यत्ताभ्यां युवाभ्यामविशङ्कया।।

एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः।
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत।।

अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम्।
गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत्।।

इयं शय्या भगवतो यथाकाममिहोष्यताम्।
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन।।

अथ सूर्योतिचक्राम तेषां संवदतां तथा।
अथर्षिश्चोदयामास पानमन्नं तथैव च।।

तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा।
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम्।।

ततः स परया प्रीत्या प्रत्युवाच नराधिपम्।
औपपत्तिकमाहारं प्रयच्छस्वेति भारत।।

तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः।
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप।।

ततः स भुक्त्वा भगवन्दम्पती प्राह धर्मवित्।
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो।।

ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः।
संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत्।।

न प्रबोध्योस्मि संसुप्त इत्युवाचाथ भार्गवः।
संवाहितव्यौ मे पादौ जागर्तव्यं च वां निशि।।

अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित्।
न प्राबोधयतां तौ च दंपती रजनीक्षये।।

यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा।
बभूवतुर्महाराज प्रयतावथ दम्पती।।

ततः स भगवान्विप्रः समादिश्य नराधिपम्।
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम्।।

स तु राजा निराहारः सभार्यः कुरुनन्दन।
पर्युपासत तं हृष्टश्च्यवनाराधने रतः।।

भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः।
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः।।

तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ।
भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत्।।

तयोस्तु प्रेक्षतोऽरेव भार्गवाणां कुलोद्वहः।
अन्तर्हितोभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ।।

ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः।
पुनरन्वेषणे यत्नमकरोत्स महीपतिः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्ताशीतितमोऽध्यायः।। 87 ।।