अनुशासनपर्व

अध्यायः ८९

Anusasana Parva (Sanskrit) · Adhyaya 89
अक्षर का आकार

भीष्म उवाच।

ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति।।

ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्।
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा।।

पर्वतान्रूप्यसानूंश्च नलिनीश्च सपङ्कजाः।
चित्रशालाश्च विविधास्तोरणानि च भारत।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्।।

सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान्।
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्।।

चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि।
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह।।

श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः।
तत्रतत्र परिक्लृप्ता ददर्श स महीपतिः।।

रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा।
विमानप्रतिमांश्चापि प्रासादाञ्शैलसन्निभान्।।

शीतलानि च तोयानि क्वचिदुष्णानि भारत।
आसनानि विचित्राणि शयनप्रवराणि च।।

पर्यङ्कान्रत्नसौवर्णान्परार्ध्यास्तरणास्तृतान्।
भक्ष्यं भोज्यमनन्तं च तत्रतत्रोपकल्पितम्।।

वाणीवादाञ्छुकांश्चैव शारिका भृङ्गराजकान्।
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान्।।

मयूरान्कुक्कुटांश्चापि दात्यूहाञ्जीवजीवकान्।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान्।।

समन्ततः प्रणदतो ददर्श सुमनोहरान्।
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव।।

कान्ताभिरपरांस्तत्र परिष्वक्रान्ददर्श ह।
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः।।

गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्।
हंसानसुमधुरांश्चापि तत्र शुश्राव पार्थिवः।।

तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु।।

अहो सह शरीरेण प्राप्तोस्मि परमां गतिम्।
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम्।।

किञ्चेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत्।
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम्।।

तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम्।।

तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं व तत्।।

ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्।
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम्।।

एवं योगबलाद्विप्रो मोहयामास पार्थिवम्।।

क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत।।

निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप।
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा।।

ततः स राजा कुशिकः सभार्यस्तेन कर्मणा।
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्।।

ततः प्रोवाच कुशिको भार्या हर्षसमन्वितः।
पश्य भद्रे यथाभावाश्चित्रा दृष्टाः सुदुर्लभाः।
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्।।

तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते।।

तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः।
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः।।

इच्छयैष तपोवीर्यादन्याँल्लोकान्सृजेदपि।
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा।।

उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः।।

ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्।
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै।।

सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति।
इत्युक्तः सहभार्यस्तु सोभ्यगच्छन्महामुनिम्।।

शिरसा वन्दनीयं तमवन्दत च पार्थिवः।
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः।।

ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत।।

राजन्सम्यग्जितानीह पञ्चपञ्च स्वयं त्वया।
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोसि तेन वै।।

सम्यगाराधितः पुत्र त्वयाऽहं वदतांवर।
न हि ते वृजितं किञ्चित्सुसूक्ष्ममपि दृश्यते।।

अनुजानीहि मां राजन्गमिष्यामि यथागतम्।
प्रीतोस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम्।।

कुशिक उवाच।

अग्निमध्ये गतेनेव भगवन्सन्निधौ मया।
वर्तितं भृगुशार्दूल यन्न दग्धोस्मि तद्बहु।।

एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन।
यत्प्रीतोसि ममाचारैः कुलं त्रातं च मेऽनघ।।

एथ मेऽन्द्रग्रहो विप्र जीविते च प्रयोजनम्।
एतद्राज्यफलं चैव तपसश्च फलं मम।।

यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोननवतितमोऽध्यायः।। 89।।