अनुशासनपर्व
अध्यायः ८६
भीष्म उवाच।
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथाऽऽगतम्।
त्वरितः प्रययौ तत्रि सहामात्यपुरोहितः।।
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः।
आत्मानमाचचक्षे च च्यवनाय महात्मने।।
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः।
सत्यव्रतं महात्मानं देवकल्पं विशाम्पते।।
नहुष उवाच।
करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम।
सर्वं कर्ताऽस्मि भगवन्यद्यपि स्यात्सुदुष्करम्।।
च्यवन उवाच।
श्रमेणि महता युक्ताः कैवर्ता मत्स्यजीविनः।
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह।।
नहुष उवाच।
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित।
निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः।।
च्यवन उवाच।
आत्ममूल्यं च वक्तव्यं न तल्लोकः प्रशंसति।
तस्मादहं प्रवक्ष्यामि न चात्मस्तुतिम्मवृतः।।
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप।
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु।।
नहुष उवाच।
सहस्राणां शतं विप्र निषोदेभ्यः प्रदीयताम्।
स्यादिदं भगवन्मूल्यं किं वाऽन्यन्मन्यते भवान्।।
च्यवन उवाच।
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ।
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय।।
नहुष उवाच।
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित।
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम्।।
च्यवन उवाच।
राजन्नार्हाम्यहं कोटिं भूयो वाऽपि महाद्युते।
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय।।
नहुष उवाच।
अर्दं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम्।
एतत्तुल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज।।
च्यवन उवाच।
अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव।
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम्।।
भीष्म उवाच।
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः।
स चिन्तयामास तदा सहामात्यपुरोहितः।।
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः।
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः।।
स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः।
तोषयिष्याम्यहं क्षिप्तं यथा तुष्टो भविष्यति।।
नाहं मिथ्यावचो ब्रूयां खैरेष्वपि कुतोऽन्यथा।
भवतो यदहं ब्रयां तत्कार्यमविशङ्कया।।
नहुष उवाच।
व्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः।
परित्रायस्व मामस्मद्विषयं च कुलं च मे।।
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम्।
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्।
अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विजः।
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम्।।
भीष्म उवाच।
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान्।
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम्।।
`ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम्।
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति।।'
अनर्घेया महाराज द्विजा वर्णेषु चोत्तमाः।
गावश्च पुरुषव्याग्र गौर्मूल्यं परिकल्प्यताम्।।
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप।
हर्षेण महता युक्तः सहामात्यपुरोहितः।।
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्।
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव।।
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोसि भार्गव।
एतन्मूल्यमहं मन्ये तव धर्मभृतांवर।।
च्यवन उवाच।
उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोस्मि तेऽनघ।
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत।।
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव।
गवां प्रशस्यते वीर सर्वपापहरं शिवम्।।
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते।
अन्नमेव सदा गावो देवानां परमं हविः।।
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ।
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम्।।
अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च।
अमृतायतनं चैताः सर्वलोकनमस्कृताः।।
तेजसा वपुषा चैव गावो वह्निसमा भुवि।
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः।।
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्।
विराजयति तं देशं पापं चास्यापकर्षति।।
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः।
गावः कामदुहोदेव्यो नान्यत्किञ्चित्परं स्मृतम्।।
इत्येतद्गोषु मे प्रोक्तं महात्म्यं भरतर्षभ।
गुणैकदेशवचनं शक्यं पारायणं न तु।।
निषादा ऊचुः।
दर्शनं कथनं चैव सहास्माभिः कृतं मुने।
सतां साप्तपदं मैत्रं प्रसादं न कुरु प्रभो।।
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः।
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान्।।
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम्।
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम्।।
`अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम्।
या गतिर्विदिता त्वद्य नरके शरणं भवान्।।
च्यवन उवाच।
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च।
नरं समूलं दहति कक्षमग्निरिव ज्वलन्।।
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः।
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह।।
भीष्म उवाच।
ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः।
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः।।
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्।
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ।।
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः।
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम्।।
ततो राजा महावीर्यो नहुषः पृथिवीपतिः।
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम।।
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः।
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत्।।
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम्।
गविजश्च महातेजाः स्वमाश्रमपदं ययौ।।
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप।
नहुषोपि वरं लब्ध्वा प्रविवेश स्वकं पुरम्।।
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि।
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर।।
महाभाग्यं गवां चैव तता धर्मविनिश्चयम्।
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षडशीतितमोऽध्यायः।। 86 ।।