अनुशासनपर्व
अध्यायः ८५
युधिष्ठिर उवाच।
दर्शने कीदृशः स्नेहः संवासे च पितामह।
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि।।
भीष्म उवाच।
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते।
नहुषस्य च संवादं महर्षेश्च्यवनस्य च।।
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ।
उदवासकृतारम्भो बभूव स महाव्रतः।।
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च।
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः।।
आदधत्सर्वभूतेषु विस्रम्यं परमं शुभम्।
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः।।
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च।
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह।।
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्।
प्रतिजग्राह शिरसा वातवेगसमं जवे।।
गङ्गा च यमुना चैव सरितश्च सरांसि च।
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन्।।
अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः।
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ।।
जलौकसां ससत्वानां बभूव प्रियदर्शनः।
उपाजिघ्नन्त च तदा मत्स्यास्तं हृष्टमानसाः।
तत्र तस्यासतः कालः समतीतोऽभवन्महान्।।
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः।
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते।।
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः।
व्यायता बलिनः शूराः सलिलेष्वनुवर्तिनः।
अभ्याययुश्च तं देशं निश्चिता जालकर्म्णि।।
जालं ते योजयामासुर्नवसूत्रकृतं दृढम्।
मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम।।
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः।
गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते।।
जालं सुविततं तेषां नवसूत्रकृतं तथा।
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम्।।
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्।
अवतीर्य ततः सर्वे जालं चकृषिरे तदा।।
अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः।
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः।।
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्।
आकर्षयन्महाराज जालेनाथ यदृच्छया।।
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्।
लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम्।
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्।
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि।।
परिखेदपरित्रासाज्जालस्याकर्षणेन च।
मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च।।
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्।
बभूव कृपयाविष्टो निःश्वसंश्च पुनःपनः।।
निषादा ऊचुः।
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु।
करवाम प्रिय किं ते तन्नो ब्रूहि महामुने।।
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्।
यो मेऽद्य परमः कामस्तं शृणुध्वं मसाहिताः।।
प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह।
संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युपितानहम्।।
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः।
सर्वे विवर्णवदना नहुषाय न्यवेदयन्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पश्चाशीतितमोऽध्यायः।। 85 ।।