अनुशासनपर्व

अध्यायः ८४

Anusasana Parva (Sanskrit) · Adhyaya 84
अक्षर का आकार

युधिष्ठिर उवाच।

ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक्।
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते।।

विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिणाम्।
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि।।

भीष्म उवाच।

`आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे।।

स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम्।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम्।।

अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता।
पुत्रिका स्याद्दुहितरि सङ्कल्पे वाऽपि वा सुतः।।

तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा।
स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः।।

माता पिता च दद्यातां यमद्भिः पुत्रमापदि।
सदृशप्रीतिसंयुक्तो विज्ञेयो दत्रिमः सुतः।।

सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्।
पुत्रं पुत्रगुणैर्युक्तं विज्ञेयः स तु कृत्रिमः।।

उत्पद्यते यस्य गूढं न च ज्ञायेत कस्यचित्।
स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पतः।।

मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वा।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते।।

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः।
तं कानीनं वदन्नाम्ना वोढुः कन्यासमुद्भवे।।

या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती।
वोढुः स गर्भो भवति सहोढ इति उच्यते।।

क्रीणीयाद्यस्त्वपर्यार्थं मातापित्रोर्यमन्तिकात्।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपि वा।।

या पत्या वा परित्यक्ता विधवा वा स्वकेच्छया।
उत्पादयति पुनर्भूत्वा स पौनर्भव उच्यते।।

सा चेदक्षतयोनिः स्याद्गतप्रत्याङ्गताऽपि वा।
पौनर्भवेन भर्त्रा सा पुनसंस्कारमर्हति।।

मातापितृहनो यः स्यात्त्यक्तो वा स्यादकारणम्।
आत्मानं स्पर्शयेद्यस्तु स्वयंदत्तस्तु स स्मृतः।।

यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्।
स पावयन्नेव शवस्तस्मात्पारशवः स्मृतः।।

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्।
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः।।

क्षेत्रजादीन्सुतानेतानेकादश यथोदितान्।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः।।

प्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत्।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत्।।

सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत्।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः।।

आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः।
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा।।

पतितस्य तु भार्याया भर्त्रा सुसमवेतया।
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः।।

षडपध्वंसजाश्चापि कानीनापसदास्तथा।
इत्येते वै समाख्यातास्तान्विजानीहि भारत।।

युधिष्ठिर उवाच।

षडपध्वंसजाः के स्युः के वाऽप्यपसदास्तथा।
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि।।

भीष्म उवाच।

त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर।
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत।।

एको द्विवर्ण एवाथ तथाऽत्रैवोपलक्षितः।
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु।।

चाण्डालो व्रात्यवर्णौ तु ब्राह्मण्यां क्षत्रियासु च।
वैश्यायां चैव शूद्रस्य लक्ष्यास्तेऽपसदास्त्रयः।।

मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ।
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु।।

ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः।
पुत्रा ह्येते न शक्यन्ते मिथ्या कर्तुं नराधिप।।

युधिष्ठिर उवाच।

क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्।
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

रेतजो वा भवेत्पुत्रः पुत्रो वा क्षत्रेजो भवेत्।
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे।।

युधिष्ठिर उवाच।

रेतजं विद्म वै पुत्रं क्षत्रेजस्यागमः कथम्।
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम्।।

भीष्म उवाच।

आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे।
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत्।।

पुत्रकामो हि पुत्रार्थे यां वृणीते विशाम्पते।
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः।।

अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ।
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ।।

क्वचिच्च कुतकः पुत्रः सङ्ग्रहादेव लक्ष्यते।
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर।।

युधिष्ठिर उवाच।

कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते।
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत।।

भीष्म उवाच।

मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत्।
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः।।

अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्ष्यते।
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते।।

युधिष्ठिर उवाच।

कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्।
देया कन्या कथं चेति तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा।
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते।।

तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत।
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर।।

संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये।
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ।।

कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ।।
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः।

क्षेत्रजो वाऽप्यपसदो येऽध्यूढास्तेषु चाप्युत।।
आत्मवद्वै प्रयुञ्जीरन्संस्कारान्ब्राह्मणादयः।

`स्वं जन्मे मातृगोत्रेण संस्कारं ब्राह्मणादयः।।'
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं पदृश्यते।

एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुरशीतितमोऽध्यायः।। 84 ।।