अनुशासनपर्व
अध्यायः ८३
युधिष्ठिर उवाच।
अर्थाश्रयाद्वा कामाद्वा वर्णानां चाप्यनिश्चयात्।
अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः।।
तेषामेतेन विधिना जातानां वर्णसङ्करे।
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम्।
असृजत्स हि यज्ञार्थे पूर्वमेव प्रजापतिः।।
भार्याश्चतस्नो विप्रस्य द्वयोरात्मा प्रजायते।
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः।।
परं शवाद्ब्राह्मणस्यैव पुत्रः
शूद्रापुत्रं पारशवं तमाहुः।
शुश्रूषकः स्वस्य कुलस्य स स्या-
त्स्वचारित्रं नित्यमथो न जह्यात्।।
सर्वानुपायानथ सम्प्रधार्य
समुद्धरेत्स्वस्य कुलस्य तन्त्रम्।
ज्येष्ठो यवीयानपि यो द्विजस्य
शुश्रूषया दानपरायणः स्यात्।।
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्माऽस्य जायते।
हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः।।
द्वे चापि भार्ये वैश्यस्य द्वयोरात्माऽस्व जायते।
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते।।
अतोऽविशिष्टस्त्वधमो गुरुदारप्रधर्षकः।
ब्राह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम्।।
अयाज्यं क्षत्रियो व्रात्यंक सूतं स्तोत्रक्रियापरम्।
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम्।।
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम्।
ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः।
एते मतिमतांश्रेष्ठ वर्णसङ्करजाः प्रभो।।
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः।
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात्।।
शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः।।
एतेऽपि सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु।
मातृजात्या प्रसूयन्ते ह्यवरा हीनयोनिषु।।
यथा चतुर्षु वर्णेषु द्वयोरात्माऽस्य जायते।
आनन्तर्यात्प्रजायन्ते यथा बाह्या प्रधानतः।।
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु।
परस्परस्य दारेषु जनयन्ति विगर्हितान्।।
यथा शूद्रोऽपि ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते।
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रजायते।।
प्रतिलोमं तु वर्धन्ते बाह्योद्बाह्यतरात्पुनः।
हीनाद्धीनाः प्रसूयन्ते वर्णाः पञ्चदशैव तु।।
अगम्यागमनाच्चैव जायते वर्णसङ्करः।
बाह्यानामनुजायन्ते सैरन्ध्र्यां मागधेषु च।
प्रसाधनोपचारज्ञमदासं दासजीवनम्।।
क्षत्रा ह्यायोगवं सूते वागुराबन्धजीवनम्।
मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम्।।
निषादो मद्गुरं सूते दासं नावोपजीविनम्।
मृतपं चापि चाण्डालः श्वपाकमिति विश्रुतम्
चतुरो मागधी सूते क्रूरान्मायोपजीविनः।
मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम्।।
वैदेहकाच्च पापिष्ठा क्रूरं मायोपजीविनम्।
निषादान्मद्रनाभं च खरयानप्रयायिनम्।।
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम्।
भृतचैलप्रतिच्छन्नं भिन्नभाजनभोजिनम्।।
आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः।
क्षुद्रो वैदेहकादन्धो बहिर्ग्रामप्रतिश्रयः।।
कारावरो निषाद्यां तु चर्मकारः प्रसूयते।
चाण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान्।।
आहिण्कों निषादेन वैदेह्यां सम्प्रसूयते।
चण्डालेन तु सौपाकश्चण्डालसमवृत्तिमान्।।
निषादी चापि चण्डालात्पुत्रमन्तेवसायिनम्।
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम्।।
इत्येते सङ्करे जाताः पितृमातृव्यतिक्रमात्।
प्रच्छन्नान्वा प्रकाशा वा वेदितव्याः स्वकर्मभिः।।
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते।
वर्णानां धर्महीनेषु सङ्ख्या नास्तीह कस्यचित्।।
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः।
बाह्या बाह्यैश्च जायन्ते यथावृत्ति यथाश्रयम्।।
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन्।
कार्ष्णायसमलङ्कारं परिगृह्य च नित्यशः।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः।।
युञ्जन्तो वाऽप्यलङ्कारांस्तथोपकरणानि च।
गोब्राह्मणाय साहय्यं कुर्वाणा वै न संशयः।।
आनृशंस्यमनुक्रोशः सत्यवाक्यं तथा क्षमा।
स्वशरीरैरपि त्राणं बाह्यानां सिद्धिकारणम्।
भवन्ति मनुजव्याघ्र तत्र मे नास्ति संशयः।।
यथोपदेशं परिकीर्तितासु
नरः प्रजायेत विचार्य बुद्धिमान्।
निहीनयोनिर्हि सुतोऽवसादये-
त्तितीर्षमाणं हि यथोपलो जले।।
अविद्वांसमलं लोके विद्वांसमपि वा पुनः।
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम्।।
स्वभावश्चैव नारीणां नराणामिह दूषणम्।
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः।।
युधिष्ठिर उवाच।
वर्णापेतमविज्ञाय नरं कलुषयोनिजम्।
आर्यरूपमिवानार्यं कथं विद्यामहे वयम्।।
भीष्म उवाच।
योनिसङ्कलुषे जातं नानाभावसमन्वितम्।
कर्मभिः सज्जनाचीर्णैर्विज्ञेयाः शुद्धयोनिकाः।।
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्।।
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्।
न कथञ्च सङ्कीर्णः प्रवृतिं स्वां नियच्छति।।
यथैव सदृसो रूपे मातावित्रोर्हि जायते।
व्याघ्रबिन्दोस्तथा योनिं पुरुषः स्वां नियच्छति।।
कुले स्रोतसि संच्छन्ने यस्य स्याद्योनिसङ्करः।
संश्रयत्येव तच्छीलं नरोऽल्पमथवा बहु।।
आर्यरूपसमाचारं चरन्तं कृतके पथि।
सवर्णमन्यवर्णं वा स्वशीलं सास्ति निश्चये।।
नानावृत्तेषु भूतेषु नानाक्रमरतेषु च।
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते।।
शरीरमिह सत्वेन न तस्य परिकृष्यते।
ज्येष्ठमध्यावरं सत्वं तुल्यसत्वं प्रमोदते।।
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत्।।
आत्मानमाख्याति हि कर्मभिर्नरः
सुशीलचारित्रकुलैः शुभाशुभैः।
प्रनष्टमप्यात्मकुलं तथा नरः
पुनः प्रकाशं कुरुते स्वकर्मतः।।
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च।
यत्रात्मानं न जनयेद्बुधस्तां परिवर्जयेत्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्र्यशीतितमोऽध्यायः।। 83 ।।