अनुशासनपर्व

अध्यायः ८२

Anusasana Parva (Sanskrit) · Adhyaya 82
अक्षर का आकार

युधिष्ठिर उवाच।

सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तम।
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ।।

कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह।
`अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्'।।
जातेऽस्मिन्संशये राजन्नान्यं पृच्छेम कञ्चन।।

यथा नरेण कर्तव्यं धर्ममार्गानुवर्तिना।
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति।।

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः।।

तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम।
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति।।

केन वा किं ततो हार्यं पितृवित्तात्पितामह।
एतदिच्छामि कथितं विभागस्तेषु कः स्मृतः।।

भीष्म उवाच।

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः।
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर।।

वैषम्यादथवा लोभात्कामाद्वाऽपि परन्तप।
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टा न तु स्मृता।।

शूद्रां शयनमारोप्य ब्राह्मणि यात्यधोगतिम्।
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा।।

तत्र जातेष्वपत्येषु द्विगुणं स्वाद्युधिष्ठिर।
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत।।

लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत्।
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात्।।

एषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर।
तत्र तेनैव हर्तव्याश्चत्वारोंशाः पितुर्धनात्।।

त्रियायास्तु यः पुत्रो ब्राह्मणः सोप्यसंशयः।
स तु मातुर्विशेषेण त्रीनंशान्हर्तुमर्हति।।

वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि।
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर।।

शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः।
अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत।।

दशधा प्रविभक्तस्य धनस्यैव भवेत्क्रमः।
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत्।।

अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्।
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत्।।

स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते।
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात्।।

तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति।
अवश्यं हि धनं देयं शूद्रापुत्राय भारत।।

आनृशंस्यं परो धर्म इति तस्मै प्रदीयते।
यत्रतत्र समुत्पन्नं गुणायैवोपपद्यते।।

यद्यप्येष सुपुत्रः स्यादपुत्रो यदि वा भवेत्।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत।।

`स्मृत एकश्चतुर्भागः कन्याभागस्तु धर्मतः।
अभ्रातृका समग्राहा चार्धास्येत्यपरे विदुः।।'

त्रैवार्विकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु।
यजेत तेन द्रव्येण न वृथा साधयेद्धनम्।।

त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै।
भर्त्रा तच्च धनं दत्तं यथार्हं भोक्तुमर्हति।।

स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्।
नापहारं स्त्रियः कुर्युः पितृवित्तात्कथञ्चन।।

स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर।
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथाऽस्य सा।।

सा हि पुत्रसमा राजन्विहिता कुरुनन्दन।
एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ।
एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम्।।

युधिष्ठिर उवाच।

शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः।
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते।।

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः।
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि।।

कस्मात्तु विषमं भागं भजेरन्नृपसत्तम।
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति।।

भीष्म उवाच।

दारा इत्युच्यते लोके नाम्नैकेन परन्तप।
प्रोक्तेनि चैव नाम्नाऽयं विशेषः सुमहान्भवेत्।।

तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम्।
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी

स्नानं प्रसाधनं भर्तुर्दन्तधावनमुञ्जनम्।
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत्।।

न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति।
ब्राह्मणीत्वेव कुर्याद्वा ब्राह्मणस्य युधिष्ठिर।।

अन्नं पानं च माल्यं च वासांस्याभरणानि च।
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी।।

मनुनाऽभिहितं शास्त्रं यच्चापि कुरुनन्दन।
तत्राप्येष महाराज दृष्टो धर्मः सनातनः।।

अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः।।

ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्।
राजन्विशेषो यस्त्वत्र वर्णयोरुभयोरपि।।

न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्।
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम।।

भूयोभूयोपि संहार्यः पितृवित्ताद्युधिष्ठिर।
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्।।

क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्।
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर।।

विहितं दृश्यते राजन्सागरान्तां च मेदिनीम्।
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्।
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात्।।

ब्राह्मणा हि महाभाग देवानामपि देवताः।
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम्।।

प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्।
लुप्यमानं स्वधर्मेण क्षत्रियो रक्षति प्रजाः।।

दस्युभिर्ह्रियमाणं च धनं दारांश्च सर्वशः।
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः।।

भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः।
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर।।

युधिष्ठिर उवाच।

उक्तं ते विधिवद्राजन्ब्राह्मणस्य पितामह।
इतरेषां तु वर्णानां कथं वै नियमो भवेत्।।

भीष्म उवाच।

क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन।
तृतीया च भवेच्छूद्रा न तु दृष्टा न तु स्मूता।।

एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर।
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं जनाधिप।।

क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात्।
युद्धावहारिकं यच्च पितुः स्वात्स हरेत्तु तत्।।

वैश्यापुत्रस्तु भागांस्त्रीञ्शूद्रापुत्रस्तथाष्टमम्।
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन।

द्वितीया तु भवेच्छूद्रा न तु दृष्टा न तु स्मृता।।
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ।

शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः।।
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ।

तयोरपत्ये वक्ष्यामि विभागं च जनाधिप।।
वैश्यापुत्रेण हर्तव्याश्चत्वारोंशाः पितुर्धनात्।

पञ्चमस्तु स्मृतोः भागः शूद्रापुत्राय भारत।।
सोपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति।

त्रिमिर्वर्णैः सदा जातः शूद्रो देयधनो भवेत्।।
0

शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन।
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत्।।

जातानां समवर्णायाः पुत्राणामविशेषतः।
सर्वेषामेव वर्णानां समभागो धनात्स्मृतः।।

ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः।
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा।।

समवर्णासु जातानां विशेषोऽस्त्यपरो नृप।
विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते।।

हरेज्ज्येष्ठः प्रधानांशमेकभार्यासुतेष्वपि।
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्।।

एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः।
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्व्यशीतितमोऽध्यायः।।। 82 ।।