अनुशासनपर्व
अध्यायः ७९
युधिष्ठिर उवाच।
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह।।
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः।
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप।।
भीष्म उवाच।
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च।
अद्भिरेव प्रदातव्या कन्या गुणवते भवेत्।
ब्राह्मणानां सतामेष नित्यं धर्मो युधिष्ठिर।।
आवाह्यमावहेदेवं यो दद्यादनुकूलतः।
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः।।
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एष यः।
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः।।
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान्।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः।।
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते।।
`सुसां मत्तां प्रमत्तां वा रहो रात्रौ च गच्छति।
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः।।
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर।
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन।।
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः।।
तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु।
वैश्यः स्वजात्यां विन्देत तास्वपत्यं हिताय हि।।
द्विजस्य ब्राह्म्णी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः।।
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः।
शूद्रायां जनयविन्प्रः प्रायश्चित्ती विधीयते।।
`नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः।
वहन्ति कर्मिणस्तस्यामन्तः शुद्धिव्यपेक्षया।।
अपरान्वयसम्भूतां संस्वप्नादिविवर्जिताम्।
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि।।
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम्।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात्।।
यस्यास्तु न भवेद्भाता पिता वा भरतर्षभ।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा।।
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती।
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत्।।
प्रजा न हीयते तस्या रतिश्च भरतर्षभ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः।।
असपिण्डा च या मातुरसगोत्रा च या पितुः।
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत्।।
युधिष्ठिर उवाच।
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत्।।
पाणिग्रहीत्ता चान्यः स्यात्कस्य भार्या पितामह।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्।।
भीष्म उवाच।
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते।
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः।।
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः।।
नह्यकामेन संवादं मनुरेवं प्रशंसति।
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम्।।
नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत।।
बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत्।
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन।।
यस्त्वत्र मन्इत्रसमयो भार्यापत्योर्मिथः कृतः।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः।।
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्।
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति।।
युधिष्ठिर उवाच।
कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः।
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा।।
तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयः समाचरेत्।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः।।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम्।।
भीष्म उवाच।
नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत्तेन नानृतम्।
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित्।
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः।।
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः।
यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः।
प्रतिगृह्य भवेद्देमेव धर्मः सनातनः।।
दास्यामि भवते कन्यामिति पूर्वं नभाषितम्।
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत।।
तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम्।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम्।।
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः।।
समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु।।
अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम्।
जित्वाऽङ्गमागधान्सर्वान्काशीनथ च कोसलान्।।
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्काऽपराऽभवत्।
कन्याऽगृहीता तत्रैव विसर्ज्या इति मे पिता।
अब्रवीदितरां कन्यामावहेति स कौरवः।।
अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः।
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाऽभवत्।।
ततोहमब्रवं राजन्नाचारेप्सुरिदं वचः।
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनःपुनः।।
ततो मयैवमुक्ते तु वाक्ये धर्मभृतावरः।।
पिता मम महाराज बीह्लीको वाक्यमब्रवीत्।।
यदि व शुल्कतो निष्ठा न पाणिग्रहणात्तथा।
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः।।
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा।।
प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः।।
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा।
न ह्येव भार्या क्रेतव्या न विक्रय्यां कथञ्चन।।
ये च क्रीणन्ति दासीवद्विक्रीणन्ति तथैव च।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम्।।
अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः।।
पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः।।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्।
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत्।।
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा।
कुर्वते जीवतोप्येवं मृते नैवास्ति संशयः।।
देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः।
तमेवानुगता भूत्वा पाणिग्राहस्य नाम सा।।
लिखन्त्येव तु केषांचिदपरेषां शनैरपि।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः।।
तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते।
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः।।
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे।
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते।।
इति देयं वदन्त्यत्र त एतं निश्चयं विदुः।
अनुकूलामनुवशां भ्रात्रा दत्तामुपाग्निकाम्।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनाशीतितमोऽध्यायः।।