अनुशासनपर्व
अध्यायः ७८
भीष्म उवाच।
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्।
देवशर्मा महातेजा यत्तच्छृणु जनाधिप।।
देवशर्मोवाच।
किं त्वया मिथुनं दृष्टं तस्मिञ्शिष्य महावने।
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च।।
विपुल उवाच।
ब्रह्मर्षे मिथुनं किन्तत्के च षट्पुरुषा विभो।
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि।।
देवशर्मोवाच।
यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत्।
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम्।।
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्।
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्।।
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्।
नरो रहसि पापात्मा पापकं कर्म वै द्विज।।
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा।
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत।।
तथैव हि भवेयुस्ते लोकाः पापकृतो यथा।
कृत्वाऽनाचक्षतः कर्म मम तच्च यथा कृतम्।।
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्।
स्मारयन्तस्तथा प्राहुस्ते यथा श्रउतवान्भवान्।।
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः।
पुरुषे पापकं कर्म शुभं वाऽशुभकर्मिणः।।
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम्।
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज।।
तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा।
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम्।।
तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज।
न च त्वं कृतवान्किंचिदागः प्रीतोस्मि तेन ते।।
`मनोदोषविहीनानां न दोषः स्यात्तथा तव।
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा।।
यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः।
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते।।
लालेत्युद्विजते लोको वक्त्रासव इति स्पहा।
अबन्धायोग्यमनसामिति मन्त्रात्मदैवकम्।।
न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम्।
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः।।
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम।
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा।।
सञ्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः।
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे।।
रक्षिता च त्वया पुत्र मम चापि निवेदिता।
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि।।
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः।
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः।।
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः।
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे।।
तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च।
उभयं दृश्यते तासु सततं साध्वसाधु च।।
स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः।
धारयन्ति महीं राजन्निमां सवनकाननाम्।।
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः।
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप।।
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः।
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः।।
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः।
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः।।
एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ।
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन।।
नासु स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर।
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह।
`अनृताविह पर्वादिदोषवर्जं नराधिप।।'
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन।
सर्वथा राजशार्दूल युक्तः सर्वत्र युज्यते।।
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः।
नान्यः शक्तस्त्रिलोकेऽस्मिन्रक्षितुं नृप योषितः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टसप्ततितमोऽध्यायः।। 78 ।।