अनुशासनपर्व
अध्यायः ८०
युधिष्ठिर उवाच
कन्यायां प्राप्तशुल्कायां पतिश्चेन्नास्ति कश्चन।
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
या पुत्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत्।
अथवा सा हरेच्छुल्कं क्रीता शुल्कप्रदस्य सा।।
तस्यार्थेऽपत्यमीहेव येन न्यायेन शक्नुयात्।
न तस्मान्मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन।।
स्वयंवृतेन साज्ञप्ता पित्रा वै प्रत्यपद्यत।
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः।।
एतत्तु नापरे चक्रुरपरे जातु साधवः।
साधूनां पुनराचारो गरीयान्धर्मलक्षणः।।
अस्मिन्नेव प्रकारे तुसुक्रतुर्वाक्यमब्रवीत्।
नप्ता विदेहराजस्य जनकस्य महात्मनः।।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्।
अनुप्रश्नः संशयो वा सतामेवमुपालभेत्।।
असदेव हि धर्मस्य प्रदानं धर्म आसुरः।
नानुशुश्रुम जात्वेनामिमां पूर्वेषु कर्मसु।।
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव तु।
रतिः साधारणो धर्म इति चाह स पार्थिवः।।
युधिष्ठिर उवाच।
अथ केन प्रमाणेन पुंसामादीयते धनम्।
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति।।
भीष्म उवाच।
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्।।
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः।
दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत्।।
ददाति हि स पिण्डान्वै पितुर्मातामहस्य च।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः।।
अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते।
दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते।।
दौहित्रकेण धर्मेण तत्र पश्यामि कारणम्।
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते।।
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः।
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः।।
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः।
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु।।
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति।
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति।।
सप्तावरे महाघोरे निरये कालसाह्वये।
स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्नुते।।
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्।
अल्पो वा बहु वा राजन्विक्रयस्तावदेव सः।।
यद्यप्याचरितः कैश्चिन्नैष धर्मः सनातनः।
अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः।।
वश्यां कुमारीं बलतो ये तां समुपभुञ्जते।
एते पापस्य कर्तारस्तमस्यन्धे च शेरते।।
अन्योप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः।
अधर्ममूलैर्हि धनैस्तैर्न धर्मोऽथ कश्चन।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अशीतितमोऽध्यायः।। 80।।