अनुशासनपर्व

अध्यायः ७७

Anusasana Parva (Sanskrit) · Adhyaya 77
अक्षर का आकार

भीष्म उवाच।

विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः।
तपोयुक्तमथात्मानममन्यत स वीर्यवान्।।

स तेन कर्मणा स्वर्गं पृथिवीं पृथिवीपते।
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृप।।

उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः।
कर्मणा तेन कौरव्य तपसा विपुलेन च।।

अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन।
रुच्या भगिन्या आदानं प्रभूतदनधान्यवत्।।

एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना।
बिभ्रती परमं रूपं जगामाथ विहायसा।।

तस्याः शरीरात्पुष्पाणि पतितानि महीतले।
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत।।

तान्यगृह्णात्ततो राजन्रुचिर्ललितलोचना।
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्।।

तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती।
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै।।

पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी।
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहम्।।

पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्रवराङ्गना।
भगिनीं चोदयामास पुष्पार्थे चारुलोचना।।

सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना।
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत।।

ततो विपुलमानाय्य देवशर्मा महातपाः।
पुष्पार्थे चोदयामास गच्छगच्छेति भारत।।

विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः।
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह।।

यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात्।
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि।।

स ततस्तानि जग्राह दिव्यानि रुचिराणि च।
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत।।

सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः।
तदा जगाम तूर्णं च चम्पां चम्पकमालिनीम्।।

स वने निर्जने तात ददर्श मिथुनं नृणाम्।
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम्।।

तत्रैकस्तूर्णमगमत्तत्पदे च विवर्तयन्।
एकस्तु न तदा राजंश्चक्रतुः कलहं ततः।।

त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथाऽपरः।
पतितेति च तौ राजन्परस्परमथोचतुः।।

तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा।
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः।।

आवयोरनृतं प्राह यस्तस्याभूद्द्विजस्य वै।
विपुलस्य परे लोके या गतिः सा भवेदिति।।

एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत्।
एवं तीव्रतपाश्चाहं कष्टश्चायं परिश्रमः।।

मिथुनस्यास्य किं मे स्यात्कृतं पापं यथा गतिः।
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै।।

एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम।
अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः।।

ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः।
अपश्यद्दीव्यमानान्वै लोभामर्षान्वितांस्तथा।।

कुर्वतः शपथं तेन यः कृतो मिथुनेन तु।
विपुलं वै समुद्दिश्य तेपि वाक्यमथाब्रुवन्।।

लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत्।
विपुलस्य परे लोके या गतिस्तामवाप्नुयात्।

एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम्।।
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः।।

स प्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः।
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम्।।

तस्य चिन्तयतस्तात बह्वीर्वाचो निशम्य तु।
इदमासीन्मनसि च रुच्या रक्षणकारितम्।।

लक्षणं लक्षणेनैव वदनं वदनेन च।
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तथा।।

एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा।
अमन्यत महाभाग तथा तच्च न संशयः।।

स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ।
पूजयामास च गुरुं विधिवत्स गुरुप्रियः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तसप्ततितमोऽध्यायः।। 77 ।।