अनुशासनपर्व

अध्यायः ७६

Anusasana Parva (Sanskrit) · Adhyaya 76
अक्षर का आकार

भीष्म उवाच।

ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः।
इदमन्तरमित्येवमभ्यगात्तमथाश्रमम्।।

रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः।
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम्।।

स ददर्श तमासीनं विपुलस्य कलेबरम्।
निश्चेष्टं स्तब्धनयनं यताऽऽलेख्यगतं तथा।।

रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम्।
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम्।।

सा तमालोक्य सहसा प्रत्युत्तातुमियेष ह।
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती।।

उत्थातुकामा तु सती विष्टव्धा विपुलेन सा।
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम्।।

तामाबभाषे देवेन्द्रः साम्ना परमवल्*******।
त्वदर्थमागतं विद्धि देवेन्द्र मां शुचिस्मिते।।

क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पभवेन ह।
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते।।

तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः।
गुरुपत्नयाः शरीरस्थो ददर्श त्रिदसाधिपम्।।

न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता।
वक्तुं च नाशकद्राजन्विष्टब्दा विपुलेन सा।।

आकारं गुरुपत्न्यास्तु स विज्ञाय भृगूद्वहः।
निजय्नाह महातेजा योगेन बलवत्प्रभो।
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः।।

तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः।
उवाच व्रीहितो राजंस्तां योगबलमोहिताम्।।

एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम्।
स तां वाच्यं गुरोः पत्न्या विपुलः पर्यवर्तयत्।।

भोः किमागमने कृत्यमिति तस्यास्तु निःसृता।
वक्त्राच्छशाङ्कसदृशाद्वाणी संस्कारभूषणा।।

वीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा।
पुरन्दरश्च संत्रस्तो बभूव विमना भृशम्।।

स तद्वैकृतमालक्ष्य देवराजो विशांपते।
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा।।

स ददर्श मुनिं तस्याः शरीरान्तरगोचरम्।
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम्।।

स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः।
प्रावेपत सुसंत्रस्तो व्रीडितश्च तदा विभो।।

विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः।
स्वकलेबरमाविश्य शक्रं भीतमथाब्रवीत्।।

अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरंदर।
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा।।

किन्नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम्।
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः।।

जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्।
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम्।।

नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा।
कृपायमानस्तु न ते दग्धुमिच्छामि वासव।।

स च घोरतमो धीमान्गुरुर्मे पापचेतसम्।
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा।।

नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः।
मा गमः ससुतामात्यः क्षयं ब्रह्मबलार्दितः।।

अमरोस्मीति यद्बुद्धिं समास्थाय प्रवर्तते।
मावमंस्था न तपसा न साध्यं नाम किञ्चन।।

भीष्म उवाच।

तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः।
न किञ्चिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत।।

मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः।
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम्।।

आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत्।
रक्षितां गुरेव भार्यां न्यवेदयदनिन्दिताम्।।

अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः।
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः।।

विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया।
निवेदयामास तदा विपुलः शक्रकर्म तत्।।

तच्छुत्वा स मुनिस्तुष्टों विपुलस्य प्रतापवान्।
बभूव शीलवृत्ताभ्यां तपसा नियमेन च।।

विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः।
धर्मे च स्थिरतां दृष्ट्वा साधुसाध्वित्यभाषत।।

प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम्।
वरेण च्छन्दयामास देवशर्मा महामतिः।।

स्थितिं च धर्मे जग्राह स तस्माद्गुरुवत्सलः।
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः।।

तथैव देवशर्मापि सभार्यः स महातपाः।
निर्भयो बलवृत्रघ्नाच्चचार विजने वने।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्सप्ततितमोऽध्यायः।। 76 ।।