अनुशासनपर्व

अध्यायः ७५

Anusasana Parva (Sanskrit) · Adhyaya 75
अक्षर का आकार

भीष्म उवाच।

एवमेतन्महाबाहो नात्र मिथ्याऽस्ति किञ्चन।
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप।।

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
यथा रक्षा कृता पूर्वं विपुलेन महात्मना।।

प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ।।
यदर्थं तच्च ते तात प्रवक्ष्यामि नराधिप।।

न हि स्त्रीभ्यः परं पुत्र पापीयः किञ्चिदस्ति वै।
अग्निर्हिः प्रमदा दीप्तो मायाश्च मयजा विभो।
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः।।

प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम्।
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्।।

अथाभ्यागच्छन्देवास्ते पितामहमरिंदम।
निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः।।

तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः।
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः।।

पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्।
असाध्व्यस्तु समुत्पन्नाः कृत्याः सर्गात्प्रजापतेः
0
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरान्सदा।।

क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः।
असज्जन्त प्रजाः सर्वाः कामक्रोधवशङ्गताः।।

`द्विजानां च गुरूणां च महागुरुनृपादिनाम्।
क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा।।

अरक्तमनसां नित्यं ब्रह्मचर्यामलात्मनाम्।
तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा।।'

न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः।
निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः।।

शय्यासनमलङ्कारमन्नपानमनार्यताम्।
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः।।

न तासां रक्षणं शक्यं कर्तुं पुंसां कथञ्चन।
अपि विस्वकृता तात कुतस्तु पुरुषैरिह।।

वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा।
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः।।

इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम्।
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियाः।।

ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः।
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि।।

तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः।
विशेषेण तु राजेन्द्र वृत्रहा पाकशासनः।।

नारीणां चरितज्ञश्च देवशर्मा महामतिः।
यथाशक्ति यथोस्साहं भार्यां तामभ्यरक्षत।।

पुरंदरं च जानंश्च परस्त्रीकामचारिणम्।
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह।।

स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा।
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्।।

रक्षाविधानं मनसा स सञ्चिन्त्य महातपाः।
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्।।

यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः।
यतः प्रार्थयते नित्यं तां रक्षस्व यथाबलम्।।

अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम्।
स हि रूपाणि कुरुते विविधानि भृगूत्तम।।

भीष्म उवाच।

इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः।
सदैवोग्रतपा राजन्नग्र्यर्कसदृशद्युतिः।।

धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत।
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्।।

कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने।
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि।।

भीष्म उवाच।

ततः स भगवांस्तस्मै विपुलाय महात्मने।
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत।।

बहुमायः स विप्रर्षे बलहा पाकशासनः।
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः।।

किरीटी वज्रधृग्धन्वी मुकुटी बद्धकुण्डलः।
भवत्यथ मुहूर्तेनि चण्डालसमदर्शनः।।

शिखी जटी चीरवासाः पुनर्भवति पुत्रक।
बृहच्छरीरश्च पनश्चीरवासाः पुनः कृशः।।

गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः।
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च।।

`प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च।'
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च।।

प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः।
शुकवायसरूपी च हंसकोकिलरूपवान्।।

सिंहव्याघ्रगजानां च रूपं धारयते पुनः।
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च।।

अकृशो मायुभग्राङ्गः शकुनिर्विकृतस्तथा।
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः।।

मक्षिकामशकादीनां वपुर्धारयतेऽपि च।
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्।।

अपि विश्वकृता तात येन सृष्टमिदं जगत्।
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा।।

वायुभूतश्च स पुनर्देवराजो भवत्युतः।
एवंरूपाणि सततं कुरुते पाकशासनः।
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम्।।

यथा रुचिं नवलिहेद्देवेन्द्रो भृगुसत्तम।
क्रतावुपहिते न्यस्तं हविः श्वेव दुरात्मवान्।।

एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा।
देवशर्मा महाभागस्ततो भरतसत्तम।।

विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तामुपेयिवान्।
रक्षां च परमां चक्रे देवराजान्महाबलात्।।

किन्नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे।
मायावी हि सुरेन्द्रोसौ दुर्धर्षश्चापि वीर्यवान्।।

नीपिधायाश्रमं शक्यो रक्षितुं पाकशासनः।
उटजं वा तथा ह्यस्य नानाविधसरूपता।।

वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्।
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येहमद्य वै।।

अथवा पौरुषेणेयं न शक्या रक्षितुं मया।
बहुरूपो हि भगवाञ्छ्रूयते पाकशासनः।।

सोहं योगबलादेनां रक्षिष्ये पाकशासनात्।
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्ये हि रक्षितुम्।।

यद्युच्छिष्टामिमां पत्नीमद्य पश्यति मे गुरुः।
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः।।

न चेयं रक्षितुं शक्या यथाऽन्या प्रमदा नृभिः।
मायावी हि सुरेन्द्रोसावहो प्राप्तोस्मि संशयम्।।

अवश्यं करणीयं हि गुरोरिह हि शासनम्।
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया।।

योगेनाथ प्रविश्येदं गुरुपत्न्याः कलेवरम्।
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः।।

एवमेव शरीरे ऽस्या निवत्स्यामि समाहितः।
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम।।

यथाहि शून्यां पथिकः सभामध्यावसेत्यथि।
तथाऽद्यावासयिष्यामि गुरुपत्न्याः कलेवरम्।
एवमेव शरीरे ऽस्य निवत्स्यामि समाहितः।।

इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः।
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च।।

इति निश्चित्य मनसा रक्षां प्रति स भार्गवः।
अन्वतिष्ठत्परं यत्नं यथा तच्छृणु पार्थिव।।

गुरुपत्नीं समासीनो विपुलः स महातपाः।
उपासीनामनिन्द्याङ्गी कथार्थैः समलोभयत्।।

नेत्राभ्यां नेत्रयोरस्या रश्मिं संयोज्य रश्मिभिः।
विवेश विपुलः कायमाकाशं पवनो यथा।।

लक्षणं लक्षणेनैव वदनं वदनेन च।
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः।।

ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्।
उवास रक्षणे युक्तो न च सा तमबुध्यत।।

यं कालं नागतो राजन्गुरुस्तस्य महात्मनः।
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत।।