अनुशासनपर्व
अध्यायः ७२
युधिष्ठिर उवाच।
अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम्।
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह।।
भीष्म उवाच।
क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम्।
यो नो याचेत यत्किंचित्सर्वं दद्याम इत्यपि।।
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम।
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति।।
अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम्।
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः।।
युधिष्ठिर उवाच।
अपीडया च भूतानां धर्मस्याहिंसया तथा।
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत्।।
भीष्म उवाच।
ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः।।
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्।
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै।।
अक्रोधः सत्यवचनमहिंसा दम आर्जवम्।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः।।
यस्मिन्नोतानि दृश्यन्ते न चाकार्याणि भारत।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति।।
तथा चिरोषितं चापि सम्प्रत्यागतमेव च।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति।।
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम्।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः।।
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां।।
हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैवहि।।
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः।।
यथा श्वा भषितुं चैव हन्तु चैवावसज्जते।
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च।
`अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः।।
श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः।
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः।।'
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः।।
ऋणमुन्मुच्य देवानामृषीणां च तथैव च।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम्।।
पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा।
एवं गृहस्थः कर्माणि कुर्वन्धर्मानन हीयते।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विसप्ततितमोऽध्यायः।। 72 ।।