अनुशासनपर्व

अध्यायः ७१

Anusasana Parva (Sanskrit) · Adhyaya 71
अक्षर का आकार

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर।।

शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुवारुणः।
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम्।।

केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि।
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः।।

शम्बर उवाच।

नासूयामि सदा विप्रान्ब्राह्ममेव च मे मतम्।
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम्।।

श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित्।
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम्।।

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा।
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि।।

ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम्।
समासिञ्चति शास्तारः क्षौद्रं मध्विव मक्षिकाः।।

यच्च भाषन्ति संतुष्टास्तच्च गृह्णाम्यमायया।
समाधिमात्मनो नित्यमनुलोममचिन्तयम्।।

सोहं वागग्रमृष्टानां रसानामवलेहकः।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः।।

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्।
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते।।

एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा।
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत।।

दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्।
पर्यपृच्छत्कथममी सिद्धा इति निशाकरम्।।

सोम उवाच।

ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा।
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः।।

प्रवसन्वाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन्।
निर्मन्युरपि निर्वाणो यतिः स्यात्समदर्शनः।।

अपि च ज्ञानसम्पन्नः सर्वान्वेदान्पितुर्गृहे।
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः।।

भूमिरेतौ निगिरति सर्पो बिलशयानिव।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्।।

अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः।।

`विद्याविदो लोकविदस्तपोदमसमन्विताः।
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः।।

इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात्।
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान्।।

भीष्म उवाच।

श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम्।
द्विजान्संम्पूजयामास महेन्द्रत्वमवाप च।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकसप्ततितमोऽध्यायः।। 71 ।।