अनुशासनपर्व

अध्यायः ७३

Anusasana Parva (Sanskrit) · Adhyaya 73
अक्षर का आकार

युधिष्ठिर उवाच।

स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम।
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः?

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडाया।।

लोकाननुचरन्सर्वान्देवर्षिर्नारदः पुरा।
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्।।

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्चाप्सरसं मुनिः।
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे।।

एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम्।
विषये सति वक्ष्यामि समर्थां मन्यसे च माम्।।

नारद उवाच।

न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने।।

एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा।
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः।।

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः।
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे।।

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते।।

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे।।

कुलीना रूपवत्यश्च नाथवत्यश्च योषितः।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै।
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह।।

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम्।।

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो।
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे।।

स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः।।

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु।।

नासां कश्चिदगम्योस्ति नासां वयसि निश्चयः।।
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते।।

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु।।

यौवने वर्तमानानां मृष्टाभरणवाससाम्।
नारीणां खैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः।।

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः।।

पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने।।

यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु।।

`दुष्टाचाराः पापरता असत्या मायया वृताः।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम्।।

अलाभात्पुरुषाणां हि भयात्परिजनस्य च।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः।।

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा।
प्राज्ञस्य पुरुषस्येह यथाभावास्तथा स्त्रियः।।

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः।।

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः।।

कामानामपि दातारं कर्तारं मानसान्त्वयोः।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः।।

न कामभोगान्विपुलान्नालङ्कारार्थसञ्चयान्।
तथैव बहुमन्वन्ते यथा रत्यामनुग्रहम्।।

अन्तकः शमनो मृत्युः पातालं बडबामुखम्।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः।।

यतश्च भूतानि महान्ति पञ्च
यतश्च लोका विहिता विधात्रा।
यतः पुमांसः प्रमदाश्च निर्मिता-
स्ततश्च दोषाः प्रमदासु नारद।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिसप्ततितमोऽध्यायः।। 73 ।।