अनुशासनपर्व
अध्यायः ७०
भीष्म उवाच।
जन्मनैव महाभागो ब्राह्मणो नाम जायते।
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक्।।
सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुकाः।
`सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः।'
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः।।
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः।
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः।।
अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः।
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत्।।
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम्।।
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ।।
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता।
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते।।
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी।
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ।।
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः।
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयाऽनुकल्पिताः
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ।।
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन।
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च।।
`युष्मत्संमाननां प्रीतिं पावनैः क्षत्रिया भृशम्।'
अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा।।
अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्रवम्।
युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम्।।'
इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ।
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता।।
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः।
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः।।
सन्त्येषां सिम्हसत्वाश्च व्याघ्रसत्वास्तथाऽपरे।
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे।।
सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे।।
सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर।।
मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा।
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः।।
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः।
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात्।।
ब्राह्मणानां परिभवादसुराः सलिलेशयाः।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः।।
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः।
अवार्या सेतुना गङ्गा दुर्जया ब्राह्ममा भुवि।।
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा।
ब्राह्मणा हि महात्मानो देवानामपि देवताः।।
तान्पूजयस्व सततं दानेन परिचर्यया।
यदीच्छसि महीं भोक्तमिमां सागरमेखलाम्।।
प्रतिग्रहेण तेजो हि विप्राणा शाम्यतेऽनघ।
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्ततितमोऽध्यायः।। 70 ।।