अनुशासनपर्व

अध्यायः ६९

Anusasana Parva (Sanskrit) · Adhyaya 69
अक्षर का आकार

भीष्म उवाच।

ब्राह्मणानेव सततं भृशं सम्परिपूजयेत्।
एते हि सोमराजान ईश्वरः सुखदुःखयोः।।

एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः।
सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः।
ततो राष्ट्राय शान्तिर्हि भूतानामिव वासवात्।।

ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः।
महारथश्च राजन्य एष्टव्यः शत्रुतापनः।।

ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम्।
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै।।

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः।
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्।।

आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः।
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते।।

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते।
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः।।

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा।
तथैव देवता राजन्नात्र कार्या विचारणा।।

तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः।
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम्।।

येनयेनैव प्रीयन्ते पितरो देवतास्तथा।।
तेनतेनैव प्रीयन्ते पितरो देवतास्तथा।।

ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः।
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति।।

वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च।
आगतानागते चोमे ब्राह्मणो द्विपदांवरः।।

ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः।
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम्।।

यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः।
कृतात्मानो महात्मानस्ते न यान्ति पराभवम्।।

क्षत्रियाणां प्रतपतां तेजसा च बलेन च।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च।।

भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन्।
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ।।

चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः।
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत्।।

यत्किंचित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा।
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ।।

वासुदेव उवाच।

मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही।।
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान्।।

भीष्म उवाच।

इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः।
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत्।।

एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनसप्ततितमोऽध्यायः।। 69 ।।