अनुशासनपर्व
अध्यायः ६८
युधिष्ठिर उवाच।
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह।
कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्रुते
भीष्म उवाच।
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत।
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः।।
कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्।।
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्।
सांत्वेन भोगदानेन नमस्कारैः सदाऽर्चयेत्।।
एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत्।
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत्।।
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत्।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते।।
ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा।
तेष्वेव यात्रा लोकानां भूतानामिव वासवे।।
अभिचारैरुपायैश्च दहेयुरपि चेतसा।
निःशेपं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः।
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः।
कुपिताः समुदीक्षन्ते दावेषअवग्निशिखा इव।।
`मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः'।
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे।।
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे।
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः।।
कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः।
चोराश्चान्येऽनृताश्चान्ये तथाऽन्ये नटनर्तकाः।।
सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च।
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ।।
नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम्।
धर्मज्ञानां सतां तेषां नित्यमवोनुकीर्तयेत्
पितॄणां देवतानं च मनुष्योरगरक्षसाम्।
पुराऽप्येते महाभागा ब्राह्मणा वै जनाधिप।।
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः।।
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्।
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत्।।
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः।
सत्यं ब्रवीमि ते राजन्विनश्येयुर्न संशयः।।
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः।
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः।।
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते।
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः।।
शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्।।
द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः।
कोलिसर्पा महिपकास्तास्ताः क्षत्रियजातयः।।
वृपलत्वं परिगता ब्राह्मणानामदर्शनात्।
श्रेयान्पराजयस्तेभ्यो न जयो जयतांवर।।
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम्।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः।।
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा।।
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्।।
दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी।
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टषष्टितमोऽध्यायः।। 68 ।।