अनुशासनपर्व
अध्यायः ६७
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
त्वत्तोऽहं श्रोतुमिच्छामि धर्मं भरतसत्तम।।
शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम्।
किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः।।
भीष्म उवाच।
इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः।
इतिहासं पुरावृत्तं शरणार्थं महाफलम्।।
प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः।
वृषदर्भं महाभागं नरेन्द्रं शरणं गतः।।
स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम्।
आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज।।
भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया।
येन त्वमिह सम्प्राप्तो विसंज्ञो भ्रान्तचेतनः।।
नवनीलोत्पलापीड चारुवर्ण सुदर्शन।
दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव।।
मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत्।
मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम्।।
काशिराज्यं तदद्यैव त्वदर्तं जीवितं तथा।
त्यजेयं भव विस्रब्धः कपोत भयं तव।।
श्येन उवाच।
ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि।
अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम्।।
मांसं च रुधइरं चास्य मज्जा मेदश्च मे हितम्।
परितोषकरो ह्येष मम माऽस्याग्रतो भव।।
तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम्।
मुञ्चैनं नहि शक्ष्यामि राजन्मन्दयितुं क्षुधाम्।।
मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः।
किञ्चिदुच्छ्वासनिःश्वासं न राजन्गोप्तुमर्हसि।।
यदि स्वविषये राजन्प्रभुस्त्वं रक्षणे नृणाम्।
खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम।।
यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः।
विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम।।
प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते।
यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि।।
भीष्म उवाच।
श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः।
सम्भाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत।।
राजोवाच।
गोवृषो वा वराहो वा मृगो वा महिषोपि वा।
त्वदथर्मद्य क्रियतां क्षुधाप्रशमनाय ते।।
शरणागतं न त्यजेयमिति मे व्रतमाहितम्।
न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज।।
श्येन उवाच।
न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान्
भक्षयामि महाराज किमन्नाद्येन तेन मे।।
यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः।
श्येनाः कपोतान्खादन्ति स्तितिरेषा सनातनी।।
उशीनर कपोते तु यदि स्नेहस्तवानघ।
ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम्।।
राजोवाच।
महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम्।
बाढमेव करिष्यामीत्युक्त्वाऽसौ राजसत्तमः।।
उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत्।
अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः।।
हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः।
तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च।।
बभूव सुमहान्नादो मेघगम्भीरनिःस्वनः।
निरुद्धं गगनं सर्वं व्यभ्रं मेघैः समन्ततः।।
मही प्रचलिता चासीत्तस्य सत्येन कर्मणा।।
स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत्।
तानि मांसानि सञ्छिद्य तुलां पूरयतेऽशनैः।
तथापि न समस्तेन कपोतेन बभूव ह।।
अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः।
तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन्।।
ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः।
र्भर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः।।
अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः।
दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनःपुनः।।
देवगन्धर्वसन्घातैरप्सरोभिश्च सर्वतः।
नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः।।
हेमप्रासादसम्बाधं मणिकाञ्चनतोरणम्।
सवैडूर्यमणिस्तम्भं विमानं समधिष्ठितः।।
स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम्।
शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर।।
भक्तानामनुरक्तानामाश्रितानां च रक्षिता।
दयावान्सर्वभूतेषु परत्र सुखमेधते।।
साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति।
किं न प्राप्तं भवेत्तेनि स्वव्याजेनेह कर्मणा।।
स राजर्षिर्विशुद्धात्मा धीरः सत्यपराक्रमः।
काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा।।
योऽप्यन्यः कारेयदेवं शरणागतरक्षणम्।
सोपि गच्छेत तामेव गतिं भरतसत्तम।।
इदं वृत्तं हि राजर्षे वृषदर्भस्य कीर्तयन्।
पूतात्मा वै भवेल्लोके शृणुयाद्यश्च नित्यशः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तषष्टितमोऽध्यायः।। 67 ।।