अनुशासनपर्व

अध्यायः ६६

Anusasana Parva (Sanskrit) · Adhyaya 66
अक्षर का आकार

युधिष्ठिर उवाच।

के पूज्या वै त्रिलोकेऽस्मिन्मानवा भरतर्पभ।
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यतः।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादं वासुदेवस्य चोभयोः।।

नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्।
केशवः परिपप्रच्छ भगवन्क्रान्नमस्यमि।।

बहुमानपरस्तेषु भगवन्यान्नमस्यसि।
शक्यं चेच्छ्रोतुमस्माभिर्ब्रूह्येतद्धर्मवित्तम।।

नारद उवाच।

शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन।
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति।।

वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्।
स्थाणु स्कन्दं महालक्ष्मीं विष्णुं ब्रह्माणमेव च।।

वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम्।
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो।।

तपोधनान्वेदविदो नित्यं वेदपरायणान्।
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम्।।

अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः।
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो।।

सम्यग्यजन्ति ये चेष्टीः क्षान्ता दान्ता जितेन्द्रियाः।
सत्यं धर्मं क्षितिं गाश्च तान्नमस्यामि यादव।।

ये वै तपसि वर्तन्ते वने मूलफलाशनाः।
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव।।

ये भृत्यभरणे शक्ताः सततं चातिथिव्रताः।
भुञ्जते देवशेषाणि तान्नमस्यामि यादव।।

ये वेद प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मचारिणः।
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम्।।

प्रसन्नहृदयाश्चैव सर्वसत्वेषु नित्यशः।
अपृष्ठतापान्स्वाध्याये युक्तास्तान्पूजयाम्यहम्।।

गुरुप्रसादे स्वाध्याये यतन्तो ये स्थिरव्रताः।
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव।।

सुव्रता मुनयो ये च ब्राह्मणाः सत्यसङ्गराः।
वोढारो हव्यकव्यानां तान्नमस्यामि यादव।।

भैक्षचर्यासु निरताः कृशा गुरुकुलाश्रयाः।
निःसुखा निर्धना ये तु तान्नमस्यामि यादव।।

निर्ममा निष्प्रतिद्वन्द्वा निष्ठिता निष्प्रयोजनाः।
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः।।

अहिंसानिरता ये च ये च सत्यव्रता नराः।
दान्ताः शमपराश्चैव तान्नमस्यामि केशव।।

देवतातिथिपूजायां युक्ता ये गृहमेधिनः।
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव।।

येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते।
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा।।

ब्राह्मणाः श्रुतसम्पन्ना ये त्रिवर्गमनुष्ठिताः।
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव।।

`अवन्ध्यकाला येऽलुब्धास्त्रिवर्गे साधनेषु च।
विशिष्टाचारयुक्ताश्च नारायण नमामि तान्।।'

अब्भक्षा वायुभक्षाश्चक सुधाभक्षाश्च ये सदा।
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव।।

अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च।
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं सदा।।

नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्।
लोकज्येष्ठान्कुलज्येष्ठांस्तमोघ्नँल्लोकभास्करान्।।

तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा।
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ।।

अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः।
चरन्ते मान्यमाना वै प्रदास्यन्ति सुखं तव।।

ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च।
नित्यं सत्ये चाभिरता दुर्गाण्यतितरन्ति ते।।

नित्यं शमपरा ये च तथा ये चानसूयकाः।
नित्यस्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते।।

सर्वान्देवान्नमस्यन्ति य चैकं वेदमाश्रिताः।
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते।।

तथैव विप्रप्रवरान्नमस्कृत्य यतव्रताः।
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते।।

तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः।
तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते।।

देवतातिथिभृत्यानां पितॄणां चार्चने रताः।
शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते।।

अग्निमाधाय विधिवत्प्रणता धारयन्ति ये।
प्राप्तः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते।।

मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा।
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः।।

तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन्।
सम्यक्पूजयसे नित्यं गतिमिष्टामवाप्स्यसि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्षष्टितमोऽध्यायः।। 66 ।।