अनुशासनपर्व

अध्यायः ६५

Anusasana Parva (Sanskrit) · Adhyaya 65
अक्षर का आकार

वैशम्पायन उवाच।

बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्।
पराक्रमे शक्रसममादित्यसमतेजसम्।।

गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम्।
भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद्युधिष्ठिरः।।

शयानं वीरशयने कालाकाङ्क्षिणमच्युतम्।
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः।।

अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः।
अङ्गिरा गौतमोऽगस्त्यः सुमतिः सुयतात्मवान्।।

विश्वामित्रः स्थूलगिराः संवर्तः प्रमतिर्दमः।
बृहस्पत्युशनोव्यासश्च्यवनः फाश्यपो ध्रुवः।।

दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः।
भरद्वाजोऽथ रैभ्यश्चक यवक्रीतस्त्रितस्तथा।।

स्थूलाक्षः शबलाक्षश्च कण्वो मेधातिथिः कृशः।
नारदः पर्वतश्चैव सुधन्वाऽथैकतो द्विजः।।

नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः।
जामदग्र्यस्तथा रामः कचश्चेत्येवमादयः।
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः।।

तेषां महात्मनां पूजामागतानां युधिष्ठिरः।
भ्रातृभिः सहितश्चक्रे यतावदनुपूर्वशः।।

ते पूजिताः सुखासीनाः कथाश्रक्रुर्महर्षयः।
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः।।

भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम्।
मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः।।

ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः।
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्।।

तानृषीन्सुमहाभागानन्तर्धानगतानपि।
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः।।

प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम्।
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः।।

प्रभावं तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः।
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः।।

महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते।
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः।।

कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः।
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः।।

के देशाः के जनपदा आश्रमाः के च पर्वताः।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शिलोच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर।।

इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषणाम्।
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः।।

शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनाऽर्चितः।
उवास रजनीं तत्र सुमुखः सुखभागृषिः।।

शिलवृत्तिस्तु यत्कृत्यं प्रातस्तत्कृतवाञ्शुचिः।
कृतकृत्यमुपातिष्ठत्सिद्धं तमतिथिं तदा।।

तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः।
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः।।

शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः।
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि।।

शिलवृत्तिरुवाच।

केदेशाः के जनपदाः केऽऽश्रमाः के च पर्वताः।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम्।।

सिद्ध उवाच।

ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः।
येषां भागीरथी गङ्गा मध्येनैति रारिद्वरा।।

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः।
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्।।

स्पष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्।
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते।।

सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम्।
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः।।

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः।
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम्।।

`युक्ताश्च पातकैस्त्यक्त्वा देहं शुद्धा भवन्ति ते।
मुच्यन्ते देहसंत्यागाद्गङ्गायमुनसङ्गमे।।'

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि।।

यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते।।

अपहत्य तमस्तीव्रं यथा भात्युदये रविः।
तथाऽपहत्य पाप्मानं भाति गङ्गाजलोक्षितः।।

विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा।
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शिवैः।।

वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः।
क्रतवश्च यथाऽसोमास्तथा गङ्गां विना जगत्।।

यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना।
तथा देशा दिशश्चैव गङ्गाहीना न संशयः।।

त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते।
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः।।

`अन्ये च देवा मुनयः प्रेतानि पितृभिः सह।
तर्पितास्तृप्तिमायान्ति त्रिषु लोकेषु सर्वशः।।'

यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम्।
गवां निर्हरनिर्मुक्ताद्यावकात्तद्विशिष्यते।।

इन्द्रव्रतसहस्रं तु यश्चोरत्कायशोधनम्।
पिवेद्यश्चापि गङ्गाम्यः समौ स्यातां न वा समौ।।

तिष्ठेद्युगसहस्रं तु पदेनैकेन यः पुमान्।
मासमेकं तु गङ्गायां समौ स्यातां न वा सभौ।।

लम्बतेऽवाक्शिरा यस्तु युगानामयुतं पुमान्।
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते।।

अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम।
तथा गङ्गावगाढस्य सर्वपापं प्रधूयते।।

भूतानामिह सर्वेषां दुःखोपहतचेतसाम्।
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः।।

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात्।
गङ्गाया दर्शनातद्वत्सर्वपापैः प्रमुच्यते।।

अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये।
येषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च।

प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान्।
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत्।।

ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः।
येऽभिगच्छन्ति सततं गङ्गां मतिमतांवर।।

विनयाचारहीनाश्च अशिवाश्च नराधमाः।
ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः।।

यथा सुराणामभृतं पितॄणां च यथा स्वधा।
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम्।।

उपासते यथा बाला मातरं क्षुधयाऽर्दिताः।
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः।।

स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते।
स्थानानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते।।

`उपजीव्या यथा धेनुर्लोकानां ब्राह्ममेव वा।
हविषां तु यथा सोमस्तरणेषु तथा त्वियम्।।

यथोपजीविनां धेनुर्देवादीनां परा स्मृता।
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह।।

देवाः सोमार्कसंस्थानि यता सत्रादिभिर्मखैः।
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः।।

जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम्।
आत्मानं मन्यते लोको दिविष्ठमिव शोभितम्।।

जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः।
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम्।।

गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा।
स्पृश्यते सोऽस्य पाप्मानं सद्य एवापकर्षति।।

व्यसनैरभितप्तस्य नरस्य विनशिष्यतः।
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति।।

हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम्।
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान्।।

हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम्।
गङ्गां गोकुलसम्बादां दृष्ट्वा स्वर्गोऽपि विस्मृतः।।

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः।
सम्भवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम्।।

वाङ्मन कर्मजैर्ग्रस्तः पापैरपि पुमानिह।
वीक्ष्य गङ्गां भवेन्मूतो अत्र मे नास्ति संशयः।।

सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे।
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वाऽवगाह्य च।।

श्रुताभिलषिता पीता स्पृष्टा दृष्टाऽवगाहिता।
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः।।

`तत्तीरगानां तपसा श्राद्धपारायणादिभिः।
गङ्गाद्वारप्रभृतिभिस्तत्तीर्थैर्न परं नृणाम्।।

सायं प्रातः स्मरेद्गङ्गां नित्यं स्नाने तु कीर्तयेत्।
तर्पणे पितृपूजासु मरणे चापि संस्मरेत्।।'

दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात्।
पुनात्युपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः।।

य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च।
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा।।

न श्रुतैर्न च वित्तेन कर्मणा न च तत्फलम्।
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात्।।

जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च।
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम्।।

भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम्।
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः।।

वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः।
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत्।।

उत्कामद्बिश्च यः प्राणैः प्रयतः शिष्टसम्मतः।
चिन्तयेन्मनसा गङ्गां स गतिं परमांलभेत्।।

न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः।
आदेहपतनाद्गङ्गामुपास्ते यः पुमानिह।।

गगनाद्गां पतन्तीं वै महापुण्यां महेश्वरः।
दधार शिरसा गङ्गां तामेव दिवि सेवते।।

अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः।
यस्तु तस्या जलं सेवेत्क्रतकृत्यः पुमान्भवेत्।

दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः।
देवेश यथा नृणां गङ्गा च सरितां तथा।।

मात्रा पित्रा सुतैर्दारैर्विमुक्तस्य धनेन वा।
न भवेद्धि तथा दुःखं यथा गङ्गा वियोगजम्।।

नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः।
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत्।।

पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति।
तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति।।

तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः।
गङ्गांयोऽनुगतो भक्त्यास तस्याः प्रियतां व्रजेत्।।

भूस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि।
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम्।।

विश्वलोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः।
`दुर्मृताननपत्यांश्च सा मृताननयद्दिवम्।'
यत्पुत्रान्सगरस्येतो भस्माख्याननयद्दिवम्।।

वाय्वीरिताभिः सुमनोहराभि-
र्द्रुताभिरत्यर्थसमुत्थिताभिः।
गङ्गोर्मिभिर्भानुमतीभिरिद्धाः
सहस्ररश्मिप्रतिमा भवन्ति।।

पयस्विनीं घृतिनीमत्युदारां
समृद्धिनीं वेगिनीं दुर्विगाह्याम्।
गङ्गां गत्वा यैः शरीरं विसृष्टं
गता धीरस्ते विबुधैः समत्वम्।।

अन्धाञ्चडान्द्रव्यहीनांश्च गङ्गा
यशस्विनी बृहती विश्वरूपा।
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च
निषेविता सर्वकामैर्युनक्ति।।

ऊर्जस्वतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम्।
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः।।

यो वत्स्यति द्रक्ष्यति वाऽपि मर्त्य-
स्मस्मै प्रयच्छन्ति सुखानि देवाः।
तद्भाविताः स्पर्शनदर्शनेन
इष्टां गतिं तस्य सुरा दिशन्ति।।

दक्षां पृश्निं बृहतीं विप्रकृष्टां
शिवामृद्धां भागिनीं सुप्रसन्नाम्।
विभावरीं सर्वभूतप्रतिष्ठां
गङ्गां गता ये त्रिदिवं गतास्ते।।

ख्यातिर्यस्याः खं दिवं गां च नित्या-
मूर्ध्वं दिशो विदिशश्चावतस्थे।
तस्या जलं सेव्य सरिद्वराया
मर्त्याः सर्वे कुतकृत्या भवन्ति।।

इयं गङ्गेति नियतं प्रतिष्ठा
गुहस्य स्क्मस्य च गर्भयोषा।
प्रातस्त्रिवर्गा घृतवहा विपाप्मा
गङ्गाऽवतीर्णा वियतो विश्वतोया।।

दिवो भुवश्चापि वीक्ष्यानुरूपा।।'

सुताऽवनीध्रस्य हरस्य भार्या
दिवो भुवश्चापि कृतानुरूपा।
भव्या पृथिव्यां भागिनी चापि राज-
न्गङ्गा लोकानां पृण्यदा वै त्रयाणाम्।।

मधुस्रवा घृतधारा घृतार्चि-
र्महोर्मिभिः शोभिता ब्राह्मणैश्च।
दिवश्च्युता शिरसाऽऽप्ता शिवेन
गङ्गाऽवनीध्रात्त्रिदिवस्य माता।।

योनिर्वरिष्ठा विरजा वितन्वी
शय्याऽचिरा वारिवहा यशोदा।
विश्वावती चाकृतिरिष्टसिद्धा
गङ्गोक्षितानां भुवनस्य पन्थाः।।

क्षान्त्या मह्या गोपने धारणे च
दीप्त्य, कृशानोस्तपनस्य चैव।
तुल्या गङ्गा सम्मता ब्राह्मणानां
गृहस्य ब्रह्मण्यतया च नित्यम्।।

ऋषिष्टुतां विष्णुपदीं पुराणां
सुपुण्यतोयां मनसाऽपि लोके।
सर्वात्मना जाह्नवीं ये प्रवन्ना
स्ते ब्रह्मणः सदनं सम्प्रयाताः।।

लोकानिमान्नयति या जननीव पुत्रा-
न्सर्वात्मना सर्वगुणोपपन्ना।
तत्स्थानकं ब्राह्ममभीप्समानै-
र्गङ्गा सदैवात्मवशैरुपास्या।।

गंङ्गां श्रयेदात्मवान्सिद्धिकामः।।

प्रसाद्य देवान्सविभून्समस्ता-
न्भगीरथस्तपसोग्रेण गङ्गाम्।
गामानयत्तामभिगम्य शश्व-
त्पुंसां भयं नेह चामुत्र विद्यात्।।

उदाहृतः सर्वथा ते गुणानां
मयैकदेशः प्रसमीक्ष्य बृद्ध्या।
शक्तिर्न से काचिदिहास्ति वक्तुं
गुणान्सर्वान्परिमातुं तथैव।।

मेरोः समुद्रस्य च सर्वयत्नैः
सङ्ख्योपलानामुदकस्य वाऽपि।
शक्यं वक्तुं नेह गङ्गाजलानां
गुणाख्यानं परिमातुं तथैव।।

तस्मादेतान्परया श्रद्धयोक्ता-
न्गुणान्सर्वाञ्जाह्नवीयान्सदैव।
भवेद्वाचा मनसा कर्मणा च
भक्त्या युक्तः श्रद्धया श्रद्दधानः।।

लोकानिमांस्त्रीन्यशसा वितत्य
सिद्धिं प्राप्य महतीं तां दुरापाम्।
गङ्गाकृतानचिरेणैव लोका-
न्यथेष्टमिष्टान्विहरिष्यसि त्वम्।।

तव मम च गुणैर्महानुभावा
जुषतु भतिं सततं स्वधर्मयुक्तैः।
अभिमतजनवत्सला हि गङ्गा
जगति युनक्ति सुखैश्च भक्तिमन्तम्।।

भीष्म उवाच।

इति परममतिर्गुणानशेषा-
ञ्शिलरतये त्रिपथानुयोगरूपान्।
बहुविधमनुशास्य तथ्यरूपा-
न्गगनतलं द्युतिमान्विवेश सिद्धः।।

शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा।
गङ्गामुपास्य विधिवत्सिद्धिं प्राप सुदुर्लभाम्।।

तथा त्वमपि कौन्तेय भक्त्या परमया युतः।
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्।।

वैशम्पायन उवाच।

श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम्।
युधिष्ठिरः परां प्रीतिमगच्छद्धातृभिः सह।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चषष्टितमोऽध्यायः।। 65 ।।