अनुशासनपर्व
अध्यायः ६२
युधिष्ठिर उवाच।
पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह।
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम्।।
भीष्म उवाच।
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः।
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर।।
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः।।
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्।।
तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः।
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्।।
तस्करेभ्यः परेभ्यो वा हृतस्वा भयदुःखिताः।
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्।।
अकल्ककस्य विप्रस्य रौक्ष्यात्करकृतात्मनः।
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्।।
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे।
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्।।
व्रतोनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः।
तस्मपाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम्।।
अत्युत्क्रान्ताश्च धर्मेषु पाषण्डस्रमयेषु च।
कृशप्राणाः कृशघनास्तेभ्यो दत्तं महाफलम्।।
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः।
स्पृहयन्ति च भुक्त्वाऽन्नं तेषुदत्तं महाफलम्।।
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये।
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम्।।
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ।
निरयं येन गच्छन्ति स्वर्गं चैव हि तत्छृणु।।
`व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम्।
निर्वेशार्थं च विद्वांसस्तेषां दत्तं महाफलम्।।
पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव वा।
महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम्।।
बालाः स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः।
स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते।।'।।
गुर्वर्थमभयार्थं वा वर्जयित्वा युधिष्ठिर।
येऽनृतं कथयन्ति स्म ते वा निरयगामिनः।।
परदाराभिहर्तारः परदाराभिमर्शिनः।
परदारप्रयोक्तास्ते वै निरयगामिनः।।
ये परस्वापहर्तारः परस्वानां च नाशकाः।
सूचकाश्च परेषां ये ते वा निरयगामिनः।।
प्रपाणां च सभानां च संक्रमाणां च भारत।
अगाराणां च भेत्तारो नरा निरयगामिनः।।
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम्।
वञ्चयन्ति नरा ये च ते वै निरयगामिनः।।
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत।
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः।।
सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः।।
पाषण्डा दूषकाश्चैव समयानां च दूषकाः।
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः।।
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु।
लाभेषु विषमाश्चैव ते वै निरयगामिनः।।
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः।
प्राणिहिंसाप्रवृत्ताश्चि ते वै निरयगामिनः।।
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्।
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः।।
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा।
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः।।
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः।
वेदानां लेखकाश्चैव ते वै निरयगामिनः।।
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः।
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः।।
केशविक्रयिका राजन्विषविक्रयिकाश्च ये।
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः।।
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर।
येऽन्तरायान्ति कार्येषु ते वै निरयगामिनः।।
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर।
शल्यानां धनुषां चैव ते वै निरयगामिनः।।
शिलाभिः शङ्कुभिर्वाऽपि श्वर्भ्रैर्वा भरतर्षभ।
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः।।
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ।
ये त्यजन्त्यविकारांस्त्रींस्ते वै निरयगामिनः।।
अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये।
बन्धकाश्च पशूनां ये ते वै निरयगामिनः।।
अगोप्तारश्च राजानो बलिषड्भागतस्कराः।
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः।।
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान्।
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः।।
बालानामथ वृद्धानां दासानां चैव ये नराः।
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः।।
एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः।
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ।।
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत।
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः।।
दानेन तपसा चैव सत्येन च युधिष्ठिर।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः।।
शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत।
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः।।
भयात्पाषात्तथा बाधाद्दारिद्र्याद्व्याधिधर्षणात्।
तत्कृते धनमीप्सन्ते ते नराः स्वर्गगामिनः।।
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः।
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः।।
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च।
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः।।
आश्रमाणां च कर्तारः कुलानां चैव भारत।
देशानां नगराणां च ते नराः स्वर्गगामिनः।।
वस्त्राभरणदातारो भक्ष्यपानान्नदास्तथा।
कुटुम्बानां च भर्तारः पुरुषाः स्वर्गगामिनः।।
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः।।
मातरं पितरं चैव शुश्रुषन्ति जितेन्द्रियाः।
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः।।
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत।
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः।।
अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः।
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः।।
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः।
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः।।
सुवर्णस्य च दातारो गवां च भरतर्षभ।
यानानां वाहनानां च ते नराः स्वर्गगामिनः।।
वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर।
दातारो वाससां चैव ते नराः स्वर्गगामिनः।।
विहारावसथोद्यानकूपारामसभाप्रपा।
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः।।
निवेशनानां क्षेत्राणां वसतीनां च भारत।
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः।।
रसानां चाथ बीजानां धान्यानां च युधिष्ठिर।
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः।।
यस्मिंस्तस्मिन्कुले जाता बहुपुत्राः शतायुषः।
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः।।
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत।
दानधर्मं च दानस्य यत्पूर्वमृषितिः कृतम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विषष्टितमोऽध्यायः।। 62 ।।