अनुशासनपर्व

अध्यायः ६३

Anusasana Parva (Sanskrit) · Adhyaya 63
अक्षर का आकार

युधिष्ठिर उवाच।

इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत।
अहिंसयित्वाऽपि कथं ब्रह्महत्या विधीयते।।

भीष्म उवाच।

व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम्।
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु।।

चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने।
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते।।

इति पृष्टो मया राजन्पराशरशरीरजः।
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम्।।

ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्।
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम्।।

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत।
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम्।।

गोकुलस्य तृषार्तस्य जलार्थमभिधावतः।
उत्पादयति यो विघ्नं तं विद्या** ह्मघातिनम्।।

यः प्रवृत्तां श्रुतिं सम्यकू शास्त्र वा मुनिभिः कृतम्।
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम्।।

आत्मजां रूपसम्पन्नां महतीं सदृशे वरे।
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मधातिनम्।।

अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु।
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम्।।

चक्षुषा विप्रहीणस्य पङ्गुलस्य जडस्य वा।
हरेत यो वै सर्वस्वं तं विद्या *** घातिनम्।।

आश्रमे वा वने वाऽपि ग्रामे वा यदि वा पुरे।
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिषष्टितमोऽध्यायः।। 63 ।।