अनुशासनपर्व

अध्यायः ६१

Anusasana Parva (Sanskrit) · Adhyaya 61
अक्षर का आकार

युधिष्ठिर उवाच।

श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह।
इच्छामीह त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः।।

भीष्म उवाच।

दैवं पौर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्।
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान्।।

मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः।
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः।।

लङ्घितं चावलीढं च लाकपूर्वं च यत्कृतम्।
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः।।

अवघुष्टं च यद्भुक्तमव्रतेन च भारत।
परामृष्टं शुना चैव तं भागं रक्षसां विदुः।।

केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्।
रुदितं चावधूतं च तं भागं रक्षसां विदुः।।

निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत।
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः।।

परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्।
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः।।

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते।
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः।।

आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते।
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः।।

ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ।
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु।।

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च।
दैवे वाऽप्यथ पित्र्ये वा राजन्नार्हन्ति केतनम्।।

श्वित्री क्लीबश्च कुष्ठी च तता यक्ष्महतश्च यः।
अपस्मारी च यश्चान्धो राजन्नार्हन्ति केतनम्।।

चिकित्सका देवलका वृथा नियमधारिणः।
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्।।

गायना नर्तकाश्चैव प्लवका वादकास्तथा।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम्।।

होतारो वृषलानां च वृषलाध्यापकास्तथा।
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्।।

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत।
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ।।

अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः।
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्।।

अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये।
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्।।

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत।
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्।।

ऋणकर्ता च यो राजन्यश्च वार्धुषिको नरः।
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्।।

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ।
आजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्।।

श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ।
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः।।

चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः।
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः।।

क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्।
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत्।।

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्।
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः।।

सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ।
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः।।

उदितास्तमितो यश्च तथैवास्तमितोदितः।
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः।।

अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ।
संसर्ग भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः।।

अव्रती कितवः स्तेनः प्राणिविक्रयिको वणिक्।
सनिष्कृतिः पुनः सोमं पीतवान्केतनक्षमः।।

अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः।
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः।।

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्।
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम्।।

क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ।
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्।।

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा।
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर।।

`मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम्।
जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम्।।

सङ्गवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः।
लौकिकं सङ्गवेऽर्धं च स्नानादि ह्यथ मध्यमे।।

चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम्।
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम्।।

चतुर्थ त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप।।

प्रागुदीचीमुखा विप्राः विश्वेदेवे च दक्षिणाः।
श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम्।।'

श्राद्धापवर्गे विप्रस्य दातारो वोस्त्वितीरयेत्।
क्षत्रियस्यापि यो ब्रूयात्प्रीयन्तां पितरस्त्विति।।

अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत।
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत।।

पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते।
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते।।

वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति।
`गोर्हिसायां चतुर्भागं पूर्वं विप्रातिकेतिनः।।

वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम्।
नान्यत्र ब्राह्मणो ब्रूयात्पूर्वं विप्रेण केतितः।।

अभोजने च दोषः स्याद्वर्जयेच्छूद्रकेतनम्।
शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत्।।

अशुचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः।
न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव।।

विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः।'
कर्मणामानुपूर्व्येण विदिपूर्वं कृतं शृणु।।

जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत।
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर।।

विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी।
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर।।

`पालाशो द्विजदण्डः स्यादश्वत्थः क्षत्रियस्य तु।
औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर।।'

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु।
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः।
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः।।

नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः।
[यवीयान्पशुहिंसायां तुल्यधर्मा भवेत्स हि।।

तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः।
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात्।।

दैवं वाऽप्यथवा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु।]
अस्नातो ब्राह्मणो राजंस्तस्याधर्मोऽनृतं स्मृतम्।।

आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु।
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम्।।

अर्थेनान्येन यो लिप्सेत्कर्मार्थं चैव भारत।
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्।।

अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर।
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकषष्टितमोऽध्यायः।। 61 ।।