अनुशासनपर्व
अध्यायः ६०
युधिष्ठिर उवाच।
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम्।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम्।।
भीष्म उवाच।
स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च।
देयमाहुर्महाराज उभावेतौ तपस्विनौ।।
युधिष्ठिर उवाच।
श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह।।
भीष्म उवाच।
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः।
पूतो भवति सर्वत्र किमुत त्वं महाद्युते।।
युधिष्ठिर उवाच।
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः।।
भीष्म उवाच।
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः।।
ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः।
मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान्।
`ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह।।
युधिष्ठिर उवाच।
अपर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत्।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः।।
भीष्म उवाच।
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान्।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः।।
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम्।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि।।
पृथिव्युवाच।
यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति।
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति।।
काश्यप उवाच।
सर्वे च वेदाः सह षङ्भिरङ्गैः
साङ्ख्यं पुराणं च कुले च जन्म।
नैतानि सर्वाणि गतिर्भवन्ति
शीलव्यपेतस्य नृप द्विजस्य।।
अग्निरुवाच।
अधीयानः पण्डितम्मन्यमानो
यो विद्यया हन्ति यशः परेषाम्।
ब्रह्मन्स तेन लभते ब्रह्मवध्यां
लोकास्तस्य ह्यन्तवन्तो भवन्ति।।
मार्कण्डेय उवाच।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात्।।
भीष्म उवाच।
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः।
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः।।
युधिष्ठिर उवाच।
यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्।।
भीष्म उवाच।
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते।।
युधिष्ठिर उवाच।
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः।
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्।।
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्।
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो।।
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः।
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः।।
धनेन पुल्कसानां च तथैवान्तेवसायिनाम्।
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम्।।
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे।
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्।।
युधिष्ठिर उवाच।
किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम्।
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्।
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम्।।
युधिष्ठिर उवाच।
कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत्।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम्।।
ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत्।
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः।।
अधिकारे यदनृतं यच्च राजसु पैशुनम्।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया।।
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च।
भ्रूणहत्यासमं चैतदुभयं ये निषेधते।।
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत्।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया।।
युधिष्ठिर उवाच।
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अक्रोधना धर्मपराः सत्यनित्या दमे रताः।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्।।
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्।।
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम्।।
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः।।
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम्।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः।।
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः।
तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः।
`तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च।।'
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति।।
तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत्।।
निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम्।
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षष्टितमोऽध्यायः।। 60 ।।