अनुशासनपर्व
अध्यायः ५९
`मार्कण्डेय उवाच।
श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम।
एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम्।।
नारद उवाच।
बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः।
ऋतौ विमुञ्चमानस्य सांनिध्ये भ्रूणहा स्मृतः।।
वृद्धां वन्ध्यां सुव्रता च मृतापत्यामपुष्पिणीम्।
कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात्।।
व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु।
ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति।।
मार्कण्डेय उवाच।
वैश्यनारीषु वै जाताः परप्रेष्यासु वा सुताः।
कस्य ते बन्धुदायादा भवन्ति हि महामुने।।
नारद उवाच।
पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः।
क्रयाच्च कृत्रिमाः पुत्रा प्रदानाच्चैव दत्रिमाः।।
मार्कण्डेय उवाच।
पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम्।
अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम्।।
नारद उवाच।
तीर्थभूतासु नारीषु ज्ञायते योऽभिगच्छति।
ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते।।
मार्कण्डेय उवाच।
नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम्।
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम्।।
नारद उवाच।
अपापां त्यजमानस्य साध्वीं मत्वा यमादितः।
आत्मवंशस्वधर्मो वा त्यजतो निष्कृतिर्न तु।।
यो नरस्त्यजते भार्या पुष्पिणीमप्रसूतिकाम्।
स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः।।
भार्यामपत्यसञ्जातां प्रसूतां पुत्रपौत्रिणीम्।
पुत्रदारपरित्यागी न स प्राप्नोति निष्कृतिम्।।
एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः।
नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः।।
मार्कण्डेय उवाच।
कीदृशीं संत्यजन्भार्यां नरो दोषैर्न लिप्यते।
एतदिच्छामि तत्वेन विज्ञातुमृषिसत्तम।।
नारद उवाच।
मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम्।
भार्यापतीनां मुक्तानामधर्मो न विधीयते।।
अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम्।
परीक्ष्य त्यजमानानां नराणां नास्ति पातकम्।।
पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा।।
मार्कण्डेय उवाच।
भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा।
कथं धर्मोऽप्यधर्मो वा भवतीह महामते।।
नारद उवाच।
अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत्।
अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा।।
अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत्।
लोलेन्द्रियेति सा रक्ष्या न सन्त्याज्या कथञ्चन।।
नद्यश्च नार्यश्च समस्वभावा
नैताः प्रमुञ्चन्ति नरावगाढाः।
स्रोतांसि नद्यो वहते निपातं
नारी रजोभिः पुनरेति शौचम्।।
एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम्।
मासिमासि भवेद्रागस्ततः शुद्धा भवन्त्युत।।
मार्कण्डेय उवाच।
कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै।
तानि वै शंस भगवन्याथातथ्येन पृच्छतः।।
सर्वतीर्थेषु सर्वज्ञ किं तीर्थं परमं नृणाम्।
यत्रोपस्पृश्य पूतो यो नरो भवति नित्यशः।।
नारद उवाच।
देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथं वैष्णवम्।
नृणां तीर्थानि पञ्चाहुः पाणौ सन्निहितानि वै।।
आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते।
यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम्।
पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च।।
मार्कण्डेय उवाच।
नराणां कामवृत्तानां या नार्यो निरवग्रहाः।
यासामभिग्रहो नास्ति ता मे कथय नारद।।
नारद उवाच।
पाशुर्वैश्या नटी गोपी तान्तुकी तुन्नवायिकी।
नारी किराती शबरी नर्तकी चानवग्रहा।।
मार्कण्डेय उवाच।
एतासु जाता नारीषु सर्ववर्णेषु ये सुताः।
केषु के बन्धुदायादा भवन्ति ऋषिसत्तम।।
नारद उवाच।
य एताः परिगृह्णन्ति तेषामेव हि ते सुताः।
सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम्।।
मार्कण्डेय उवाच।
सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः।
मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः।
नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत्।।
नारद उवाच।
नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः।
व्रात्येष्वन्नप्रदानं तद्यथा शूद्रेषु वै तथा।।
मार्कण्डेय उवाच।
धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः।
कथं न विघ्नो भवति एतदिच्छामि वेदितुम्।।
नारद उवाच।
अर्थाश्च नार्यश्च समानमेन-
च्छ्रेयांसि पुंसामिह मोहयन्ति।
रतिप्रमोदात्प्रमदा हरन्ति
भोगैर्धनं चाप्युपहन्ति धर्मान्।।
हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति।
दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः।।
मार्कण्डेय उवाच।
श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम्।
हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः।।
नारद उवाच।
चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु।
तस्माद्वर्णौः संविभज्या वृत्तिः सङ्करवर्जिता।।
ये चान्ये श्रोत्रिया जाताः संस्कृताः पुत्रगृध्नुभिः।
पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिमुपाश्रिताः।।
मार्कण्डेय उवाच।
असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिजाः कथम्।
नारद उवाच।
असंस्कारो वैदिकश्च स मान्यः श्रोत्रियात्मजः।
शुद्धान्वयः श्रोत्रियस्तु सुविद्वद्भिः समोऽन्यथा।।
अनधीयानपुत्राश्च वेदसंस्कारवर्जिताः।
तस्मात्ते वेदविज्ञाऽपि विप्राः श्रुतिनिकारिणः।।
ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः।
तस्मात्तेष्वेव ते जाताः साधवः कुलधारिणः।।
मार्कण्डेय उवाच।
स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः।
कस्य नार्यः सुताश्चैव भवन्ति ऋषिसत्तम।।
नारद उवाच।
स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत्।
इहाभिनिन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत्।।
सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास्तु ते।
तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः।
सर्वे तस्यास्तु सम्बन्धा मुच्यन्ते प्रेष्यकर्मसु।।
एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया।
अथवा संशयः कश्चिद्भूयः सम्प्रष्टुमर्हसि।।
मार्कण्डेय उवाच।
अमिथ्यादर्शनालोके नारदः सर्वकोविदः।
प्रत्यक्षदर्शी लोकानां स्वयंभुरिव सत्तमः।।
भीष्म उवाच।
इति सम्भाष्य ऋषिभिर्मार्कण्डेयो महातपाः।
नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः।
आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः।।
ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः।।
सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मिचर्यया।
नित्यनैमित्तिकात्स्नातो मनश्शुद्ध्या च शुद्ध्यति।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनषष्टितमोऽध्यायः।। 59 ।।