अनुशासनपर्व
अध्यायः ५८
मार्कण्डेय उवाच।
श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम्।
प्रमदानां तु चापल्ये दोषमिच्छामि वेदितुम्।।
नारद उवाच।
एकवर्णे विदोषं तु गमनं पूर्वकालिकम्।
धाता च समनुज्ञातो विष्णुना तत्तथाऽकरोत्।।
भगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः।
ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः।।
अथ विष्णुप्रसादेन भगो दत्तवरः किल।
तेन चैव प्रसादेन सर्वांल्लोकानुपाश्नुते।।
तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः।
विना गर्भं सवर्णेषु न त्याज्या गमनात्स्त्रियः।।
प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः।
श्वभिर्वा दंशनं स्नानं सवनत्रितयं निशि।।
भूमौ च भस्मशयनं दानं भोगविवर्जितम्।
दोषगौरवतः कालो द्रव्यगौरवमेव च।
मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते।।
तद्योषितीं तु दीर्घायो नास्ति दोषो व्यतिक्रमे।
भगतीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह।।
रक्ष्याश्चैवान्यसंवादैरन्यगेहाद्विचक्षणैः।
आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते।।
नैता वाच्या न वै वध्या न क्लेश्याः शुभमिच्छता।
विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः।
मासिमासि ऋतुस्तासां दुष्कृतान्यपकर्षति।।
स्त्रियस्तोषकरा नॄणां स्त्रियः पुष्टिप्रदाः सदा।
पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टपञ्चाशोऽध्यायः।। 58 ।।