अनुशासनपर्व
अध्यायः ५७
`मार्कण्डेय उवाच।
श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने।
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो।।
नारद उवाच।
आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति।
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम्।।
परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः।
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः।।
एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु।
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः।।
मार्कण्डेय उवाच।
परस्य भार्या या पूर्वं मृते भर्तरि या पुनः।
अन्यं भजति भर्तारं ससुता असुता कथम्।।
नारद उवाच।
असुता वा प्रसूता वा गृहस्थानां परस्त्रियः।
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः।।
न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः।
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात्।।
मार्कण्डेय उवाच।
परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः।
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम।।
नारद उवाच।
अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत्।
स्वयंवृतोऽऽश्रमस्थायां तद्बीजं न विनश्यति।।
परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत्।
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम्।।
नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम्।
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि।।
मार्कण्डेय उवाच।
अथ ये परदारेषु पुत्रा जायन्ति नारद।
कस्य ते बन्धुदायादा भवन्ति परमद्युते।।
नारद उवाच।
परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ।
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः।।
ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च।
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम्।।
पितुहि नरकायैते गोलकस्तु विशेषतः।
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः।।
मार्कण्डेय उवाच।
कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः।
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान्।।
नारद उवाच।
क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ।
न रक्षति च यो दारान्परदाराश्च गच्छति।।
गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः।
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः।।
मार्कण्डेय उवाच।
तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद।
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं।।
नारद उवाच।
यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम्।
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः।।
मार्कण्डेय उवाच।
अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम्।
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम।।
नारद उवाच।
न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम्।
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः।।
मार्कण्डेय उवाच।
अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति।
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं।।
नारद उवाच।
साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम्।
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः।।
एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः।
हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तपञ्चाशोऽध्यायः।। 57 ।।