अनुशासनपर्व
अध्यायः ५६
Anusasana Parva (Sanskrit) · Adhyaya 56
`मार्कण्डेय उवाच।
श्रुतं बहुविधं वृत्तं कन्यकानां महामते।
इच्छामि योषितां श्रोतुं धर्माधर्मौ परिग्रहे।।
नारद उवाच।
अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि।
प्रेत्येह च हिता यास्तु सपुत्रा हव्यकव्यदाः।।
साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता।
भ्रातृभार्या स्वभार्येति प्रसूयेत्पुत्रमौरसम्।।
मार्कण्डेय उवाच।
त्रयो भार्यागमा ज्ञेया यत्र धर्मो न नश्यति।
पञ्चान्याः पश्चिमा ब्रूहि भार्यास्तासां च ये सुताः।।
नारद उवाच।
सगोत्रभार्या क्रीता च परभार्या च कारिता।
गतागता च या भार्या आश्रमादाहृता च या।।
एता भार्यागमाः पञ्च पुनर्भार्या भवन्ति याः।
एता भार्या नृणां गम्यास्तत्पुत्रा हव्यकव्यदाः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्पञ्चाशोऽध्यायः।। 56 ।।