अनुशासनपर्व
अध्यायः ५३
`युधिष्ठिर उवाच।
वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च।
ब्रह्मर्षय इति प्रोक्ताः पुराणि द्विजसत्तमाः।।
कथमेतन्महाराज तत्त्वं शंसितुमर्हसि।
विरुद्धमिह पश्यामि वियोनौ ब्राह्मणो भवेत्।।
भीष्म उवाच।
अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर।
शुभेतरं शुभं वाऽपि न चिन्तयितुमर्हसि।।
ईशन्त्यात्मन इत्येते गतिश्चैषां न सञ्जते।
ब्रह्मभूयांस इत्येव ऋषयः श्रुतिचोदिताः।।
निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम्।
लोकोऽनुमन्यते चैतान्प्रमाणं ह्यत्र वै तपः।।
एवं महात्मभिस्तात तपोज्ञानसमन्वितैः।
प्रवर्तितानि कार्याणि प्रमाणान्येव सत्तम।।
भार्याश्चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ।।
राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ।
वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ।।
शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु सङ्करः।
शूद्रायास्तु नरश्रेष्ठ चत्वारः पतयः स्मृताः।।
वर्णोत्तमायास्तु पतिः सवर्णस्त्वेक एव सः।
द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस्तथा।।
वैश्यायास्तु नरश्रेष्ठ विहिताः पतयस्त्रयः।
सवर्णः क्षत्रियश्चैव ब्राह्मणश्च विशाम्पते।।
एवंविधिमनुस्मृत्य ततस्ते ऋषिभिः पुरा।
उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा।।
पुराणाभ्यामृषिभ्यां तु मित्रेण वरुणेन च।
वसिष्ठोऽथ तथाऽगस्त्यो बर्हिषव्यस्तथैव च।।
कक्षीवानार्ष्टिषेणश्च पुरुषः कष एव च।
मामतेयस्य वै पुत्रा गौतमश्चात्मजाः स्मृताः।।
वत्सप्रियश्च भगवान्स्थूलरश्मिस्तथाक्षणिः।
गौतमस्यैव तनया ये दास्यां जनिता ह्युत।।
कपिञ्जलादो ब्रह्मर्षिश्चाण्डाल्यामुदपद्यत।
वैनतेयस्तथा पक्षी तुर्यायां च वसिष्ठतः।।
प्रसादाच्च वसिष्ठस्य शुक्लाभ्युपगमेन च।
अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा।
ब्राह्मणत्वमनुप्राप्तो ब्रह्मर्षित्वं च कौरव।।
वैश्यश्चित्रमुखः कन्यां वसिष्ठतनयस्य वै।
शुभां प्रादाद्यतो जातो ब्रह्मर्षिस्तु पराशरः।।
तथैव दाशकन्यायां सत्यवत्यां महानृषिः।
पराशरात्प्रसूतश्च व्यासो योगमयो मुनिः।।
विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः।
ऋस्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः।।
शार्ङ्ग्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः।
जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः।।
द्रोणश्च स्तम्बमित्रश्च सारिसृक्वश्च बुद्धिमान्।
जरितारिश्च विख्यातश्चत्वारः सूर्यसन्निभाः।।
महर्षेः कालवृक्षस्य शकुन्त्यामेव जज्ञिवान्।
हिरण्यहस्तो भगवान्महर्षिः काञ्चनप्रभः।।
पावकात्तात सम्भूता मनसा च महर्षयः।
पितामहस्य राजेन्द्र पुरस्त्यपुलहादयः।।
सावर्ण्यश्चापि राजर्षिः सवर्णायामजायत।
मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता।।
शाण्डिल्यश्चाग्नितो जातः कश्यपस्याग्रजः प्रभुः।
शरद्वतः शरस्तम्बात्कृपश्व कृपया सह।।
पद्माश्च जज्ञे राजेन्द्र सोस्यपस्य महात्मनः।
रेणुश्च रेणुका चैव राममाता यशस्विनी।।
समुनायाः समुद्भूतः सोमकेन महात्मना।
अर्कदन्तो महानृषिः प्रथितः पृथिवीतले।।
अग्नेराहवनीयाच्च द्रुपदस्येन्द्रवर्चसः।
धृष्टद्युम्नश्च सम्भूतो वेद्यां कृष्णा च भारत।।
व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः।
एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः।।
मन्धश्च बादलोमस्च जावालिश्च महानृषिः।
मन्युश्चैवोपमन्युश्च सेतुकर्णस्तथैव च।
एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः।।
विश्वकाशस्य राजर्षेरैक्ष्वाकोस्तु महात्मनः।
बालाश्वो नाम पुत्रोऽभूच्छिखां भित्त्वा विनिस्सृतः।।
मान्धाता चैव राजर्षिर्युवनाश्वेन धीमता।
स्वयं धृतोऽथ गर्भेण दिव्यास्त्रबलसंयुतः।।
गौरिकश्चापि राजर्षिश्चक्रवर्ती महायशाः।
बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना।।
भूमेश्च पुत्रो नरकः संवर्तश्चैव पुष्कलः।
अद्भिश्चैव महातेजा ऋषिर्गार्ग्योऽभ्यजायत।।
एते चान्ये च बहवो राजन्या ब्राह्मणास्तथा।
प्रभावेनाभिसम्भूता महर्षीणां महात्मनाम्।
नासाध्य तपसा तेषां विद्ययाऽऽत्मगुणैः परैः।।
अस्मिन्नर्थे च मनुना नीतः श्लोको नराधिप।
धर्मं प्रणयता राजंस्तं निबोध युधिष्ठिर।।
ऋषिणां च नदीनां च साधूनां च महात्मनाम्।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च।।
तन्नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे।
यथा सर्वगतो ह्यग्निस्तथा तेजो महात्मसु।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिपञ्चाशोऽध्यायः।। 53 ।।