अनुशासनपर्व
अध्यायः ५४
`युधिष्ठिर उवाच।
पुत्रैः कथं महाराज पुरुषस्तारितो भवेत्।
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते।।
पर्वतं नारदं चैव असितं देवलं च तम्।
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा।।
गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे।
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत।।
ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः।
अर्चयित्वाऽर्हतो विप्रं किं कुर्म इति चाब्रुवन्।।
मार्कण्डेय उवाच।
अयं समागमः सद्भिर्यत्नेनासादितो मया।
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम्।।
ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति।
युगेयुगे महर्षिभ्यो धर्ममिच्छामि वेदितुम्।।
ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः।
धर्माधर्मेषु तत्वज्ञ त्वं हि च्छेत्ता हि संशयान्।।
ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदस्तदा।
सर्वधर्मार्थतत्वज्ञं मार्कण्डेयं ततोऽब्रवीत्।।
दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित्।
यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम्।।
धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि।
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः।।
मार्कण्डेय उवाच।
युगेयुगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति।
कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः।।
नारद उवाच।
आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे।
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः।।
ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम्।।
तस्मिन्नतीते सम्प्राप्तं तृतीयं द्वापरं युगम्।
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति।।
द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते।
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे।।
चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः।
ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः।
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः।।
मार्कण्डेय उवाच।
एवं विलुलिते धर्मे लोके चाधर्मसंयुते।
चातुर्वर्ण्यस्य नियतं हव्यं कव्यं नियच्छति।।
नारद उवाच।
मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति।
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः।।
सत्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात्।
अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम्।।
मार्कण्डेय उवाच।
चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यति।
मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति।।
नारद उवाच।
असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः।
वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति।।
मार्कण्डेय उवाच।
अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः।
दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति
नारद उवाच।
वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम्।
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम्।।
यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः।
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः।।
तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः।
यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुःपश्चाशोऽध्यायः।। 54 ।।