अनुशासनपर्व
अध्यायः ५२
युधिष्ठिर उवाच।
न बिभेति कथं सा स्त्री शापाच्च परमद्युते।
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे।।
भीष्म उवाच।
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया।।
स्त्र्युवाच।
द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम।।
जिज्ञासेयं प्रयुक्ता मे स्थैर्यं कर्तुं तवानघ।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम।।
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः।।
`अविश्वासो न व्यसनी नातिसक्तोऽप्रवासकः।
विद्वान्सुशीलः पुरुषः सदारः सुखमश्नुते।।'
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः।।
सत्वं येन च कार्येण सम्प्राप्तो भगवानिह।
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभः।।
प्रेषितश्चोपदेशाय तच्च सर्वं श्रुतं त्वया।।
`नितान्तं स्त्री भोगपरा प्रियवादाप्रवासनात्।
रक्ष्यते चाकुचेलाद्यैरप्रसङ्गानुवर्तनैः।।
अपर्वस्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत्।
रात्रौ च नातिनियमो न वै ह्यनियमो भवेत्।।'।।
क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति।।
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्।
अनतिक्रमणीया साकृत्स्नैर्लोकैस्त्रिभिः सदा।।
गच्छस्व कृतकृत्यस्त्वं किं वाऽन्यच्छ्रोतुमिच्छसि।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्।।
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ।
तस्य सम्माननार्थं मे त्वयि वाक्यं प्रभाषितम्।।
भीष्म उवाच।
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्।।
गृहमागत्य विश्रान्तः स्वजनं परिपृच्छ्य च।
अभ्यागच्छच्च तं विप्रं न्यायतः कुरुनन्दन।।
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना।।
भवताऽहमनुज्ञातः प्रास्थितो गन्धमादनम्।
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत्।।
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः।
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो।।
तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे।
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्।।
भीष्म उवाच।
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा।।
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्।
उवास मुदितस्तत्र श्वाश्रमे विगतज्वरः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणिः द्विपञ्चाशोऽध्यायः।। 52 ।।