अनुशासनपर्व

अध्यायः ५१

Anusasana Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

भीष्म उवाच।

अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्।।

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत।।

शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत्।
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम्।।

अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा।
स्नापयामास शनकैस्तमृषिं सुखहस्तवत्।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा।।

जलेन सुसुखोष्णेन तस्या हस्तसुखेन च।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः।।

तत उत्थाय स मुनिस्तदा परमविस्मितः।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि।।

`सन्ध्योपासनमित्येव सर्वपापहरं न मे।'
तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत्।।

अथोपास्य सहस्रांशुं किं कोरमीत्युवाच ताम्।
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत्।।

तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः।
व्यगमच्चाप्यहःशेष ततः सन्ध्याऽऽगमत्पुनः।।

अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत्।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते।।

[पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा।
तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत्।।]

अष्टावक्र उवाच।

न भद्रे परदारेषु मनो मे सम्प्रसज्जति।
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च।।

भीष्म उवाच।

सा तदा तेन विप्रेण तथा धृत्या निवर्तिता।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते।।

अष्टावक्र उवाच।

नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति।।

स्त्र्युवाच।

बाधने मैथुनं विप्र मम भक्तिं च पश्य वै।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि।।

अष्टावक्र उवाच।

हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम्।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज।।

स्त्र्युवाच।

शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि।
भूमौ निपतमानायाः शरणं भव मेऽनघ।।

यदि वा दोषजातं त्वं परदारेषु पश्यसि।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज।।

न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्।
स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम्।।

अष्टावक्र उवाच।

स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति।।

पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति।
`न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे'

स्त्र्युवाच।

कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम।।

अष्टावक्र उवाच।

यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत्।।

आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत्।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता।।

किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः।
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत्।।

यथा मे परमा शक्तिर्न व्युत्थाने कथंचन।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकपञ्चाशोऽध्यायः।। 51 ।।