अनुशासनपर्व
अध्यायः ५०
युधिष्ठिर उवाच।
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम्।।
आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽसुरः।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः।।
सन्देहः सुमहानेष विरुद्ध इति मे मतिः।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्वनु।।
स्वर्गो मृतानां भवति सहधर्मः पितामह।
पूर्वमेकस्तु म्रिय********कस्तिष्ठते वद।।
नानाधर्मफलोपेता नानाकर्मनिवासिताः।
नानानिरयनिष्ठान्ता मानुपा बहवो यदा।।
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति।
यदाऽनृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः।।
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते।
धर्मो यः पूर्विको दृष्ट उपचारः क्रियाविधिः।।
गहरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्।
निःसन्देहमिदं सर्वं पितामह यथाश्रुतिः।।
यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम्।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अष्टावक्रस्य संवादं दिशया सह भारत।।
निर्विष्टुकामस्तु पुरा अष्टावक्रो महातपाः।
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः।।
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि।
गुणप्रभावशीलेन चारित्रेण च शोभनाम्।।
सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना।
वनराजी यथा चित्रा वसन्ते कुसुमाञचिता।।
ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु।।
`अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः।
सुरूपः सम्मतो वीरः शीलवान्भोगभुक्छुचिः।।
दारानुमतयज्ञश्च सुनक्षत्रामथोद्वेहेत्।
सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते।।
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः।।
अष्टावक्र उवाच।
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्।
तथेदानीं मयो कार्यं यथा वक्ष्यति मां भवान्।।
वदान्य उवाच।
धनदं समतिक्रम्य हिमवन्तं च पर्वतम्।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम्।।
संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः।
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः।।
पाणितालसुतालैश्च शम्पातालैः समैस्तथा।
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते।।
इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम।
नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः।।
तत्र देव्या तपस्तप्तं सङ्करार्थं सुदुश्चरम्।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः।।
पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा।।
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः।।
देवं चोपासते सर्वे रूपिणः किल तत्र ह।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि।।
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम्।
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम्।।
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम्।
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः।।
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि।
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम्।।
अष्टावक्र उवाच।
तथाऽस्तु साधयिष्यामि तत्र यास्याम्यसंशयम्।
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक्।।
भीष्म उवाच।
ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम्।
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्।।
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्।
अभ्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम्।।
अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः।
तत्र वासाय शयने कौशे सुखमुवास ह।।
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः।
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः।।
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत्।
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ।।
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया।
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः।।
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम्।
प्रत्युत्थिता भगवन्तं माणिभद्रपुरोगमाः।।
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्।
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्।।
ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन्।
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्।।
विदितो भगवानस्य कार्यमागमनस्य यत्।
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा।।
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्।
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत्।।
सुखं प्राप्तो भवान्कच्चित्किंवा मत्तश्चिकीर्षति।
ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज।।
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम।
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः।।
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्।
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च।।
अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः।
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः।।
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्।
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः।।
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा।
संवर्ततामित्युवाच मुनिर्मधुरया गिरा।।
यथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा।
अलम्बुसा घृताची च चित्रा चित्राङ्गदारुचिः।।
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा।
विद्युता प्रशमी दान्ता विद्योता रतिरेव च।।
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः।
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च।।
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत्।
दिव्यं संवत्सरं तत्रारमतैष महातपाः।।
ततो वैश्रवणो राजा भगवन्तमुवाच ह।
साग्रः संवत्सरो यातो विप्रेह तव पश्यतः।।
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः।
छन्दतो वर्ततां विप्र यथा वदति वा भवान्।।
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्।
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि।।
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत।
अर्चितोस्मि यथान्यायं गमिष्यामि धनेश्वर।।
प्रीतोस्मि सदृशं चैव तव सर्वं धनाधिप।
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः।
नियोगादद्य यास्यामि वृद्दिमानृद्धिमान्भव।।
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः।
`कैलासे सङ्करावासमभिवीक्ष्य प्रणम्य च।।
गौरीशं शङ्करं दान्तं शरणागतवत्सलम्।
गङ्गाधरं गोपतिनं गणावृतमकल्पषम्।।'
कैलासं मन्दरं हैमं सर्वाननुचचार ह।
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम्।।
प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः।
धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभकवत्।।
स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः।
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः।।
ततोऽपरं वनोद्देशं रमणीयमपश्यत।
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः।
रमणीयैर्वनोद्देशैस्तत्रतत्र विभूषितम्।।
तत्राश्रमपदं दिव्यं ददर्श भगवानथ।।
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान्।
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च।।
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ।
भृशं तस्य मनो रमे महर्षेर्भावितात्मनः।।
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्।
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम्।।
महान्तो यत्र विविधा मणिकाञ्चनपर्वताः।
विमानानि च रम्याणि रत्नानि विविधानि च।।
मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम्।
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता।।
नानाविधैश्च भवनैर्विचित्रमणितोरणैः।
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः।।
मनोद्दष्टिहरै रम्यैः सर्वतः संवृतं शुभैः।
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम्।।
ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति।
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्।।
अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै।।
अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः।
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः।।
यांयामपश्यत्कन्यां वै सासा तस्य मनोऽहरत्।
न च शक्तो वारयितुं मनोऽस्याथावसीदति।
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः।।
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति।
स च तासां सुरुपेण तस्यैव भवनस्य च।
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः।।
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम्।
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम्।।
स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा।
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह।।
अष्टावक्र उवाच।
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु।
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः।।
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा।
निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठतः।
तया सम्पूजितस्तत्र शयने चापि निर्मले।।
अथ तां संविशन्प्राह शयने भास्वरे तदा।
त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते।।
संलापात्तेन विप्रेण तथा सा तत्र भाषिता।
द्वितीये शयने दिव्ये संविवेश महाप्रभे।।
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा।
व्यपदिश्य महर्षेर्वै शयनं व्यवरोहत।।
स्वागतेनागतां तां तु भगवानभ्यभाषत।
सा जुगूह भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ।।
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा।
दुखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह।।
ब्रह्मन्नकामकरोस्ति स्त्रीणां पुरुषतो धृतिः।
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम्।।
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह।
उपगूह च भां विप्र कामार्ताऽहं भृशं त्वयि।।
एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम्।
प्रार्थितं दर्शनादेव भजमानां भजस्व माम्।।
सद्म चेदं धनं सर्वं यच्चान्यदपि पश्यसि।
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः।।
सर्वान्कामान्विधास्यामि रमस्व सहितो मया।
रमणीये वने विप्र सर्वकामफलप्रदे।।
त्वद्वशाऽहं भविष्यामि रंस्यसे च मया सह।
सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः।।
नातः परं हि नारीणां विद्यते च कदाचन।
यथा पुरुषसंसर्गः परमेतद्धि नः फलम्।।
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः।।
अष्टावक्र उवाच।
परदारानहं भद्रे न गच्छेयं कथञ्चन।
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम्।।
`शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते।
पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः'।।
भद्रे निर्वेष्टुकामोऽहं तत्रावकिरणं मम।
`प्रायश्चित्तं महदतो दारग्रहणपूर्वकम्।।
बीजं न शुद्ध्यते वोढुरन्यथा कृतनिष्कृतेः।
मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः।।'
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः।
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः।।
भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह।।
स्त्र्युवाच।
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज।
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः।।
सहस्रे किल नारीणां प्राप्येतैका कदाचन।
तथा शतसहस्रेषु यदि काचित्पतिव्रता।।
नैता जानन्ति पितरं न कुलं न च मातरम्।
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान्।।
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः।
दोषान्सर्वाश्च मत्वाऽऽशु प्रजापतिरभाषत।।
भीष्म उवाच।
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत।
आस्यतांरुचितश्छन्दः किञ्च कार्यं ब्रवीहि मे।।
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः।
वस तावन्महाभाग कृतकृत्यो भविष्यसि।।
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर।
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः।।
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम्।
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत्।।
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा।
नारमत्तत्रतत्रास्य दृष्टी रूपविरागिता।।
देवतेयं गृहस्यास्य शापात्किंनु विरूपिता।
अस्याश्च कारणं वेत्तुं न युक्तं सहसा भया।।
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः।
व्यगमद्रात्रिशेषः स मनसा व्याकुलेन तु।।
अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः।
रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव।।
स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय।
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चाशोऽध्यायः।। 50 ।।