अनुशासनपर्व
अध्यायः ४९
वैशम्पायन उवाच।
महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः।।
पुरा पुत्र मया मेरौ तप्यता परमं तपः।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः।।
लब्धवानीप्सितं काममहं वै पाण्डुनन्दन।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि।।
कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः।
मया जन्मान्यनेकानि भक्त्या चाराधितो भवः।
प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम्।।
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा।
आलम्बायन इत्येवं विश्रुतः करुणात्मकः।।
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्।।
अजराणामदुःखानां शतवर्षसहस्रिणाम्।
लब्धं पुत्र शतं शर्वात्पुरा पाण्डुनृपात्मज।।
वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः।
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति।।
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत।
सोऽहमीशानमनघममोघं शरणं गतः।।
मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति।।
जामदग्न्यश्च कौन्तेयमिदं धर्मभृतांवरः।
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः।।
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज।
शुचिर्भूत्वा महादेवं गतोस्मि शरणं नृप।।
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः।
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे।।
पापं च ते न भविता अजेयश्च भविष्यसि।
न ते प्रभविता मृत्युरजरश्च भविष्यसि।।
आह मां भगवानेवं शिखण्डी शिवविग्रहः।
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः।।
विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम्।
ब्राह्मणोऽहं भवानीति मया चाराधितो भवः।
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत्।।
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्।।
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः।।
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा।
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः।।
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके।।
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया।
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते।।
समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते।।
एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः।
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः।।
दशवर्षसहस्राणि दशाष्टौ च शतानि च।
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते।।
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः।।
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः।।
अजरश्चामरश्चैव भविता दुखवर्जितः।
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः।।
अनुग्रहानेवमेष करोति भगवान्विभुः।
अयं धाता विधाता च सुखदुःखे च सर्वदा।।
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः।।
वासुदेवस्तदोवाच पुनर्मतिमतांवरः।
सुवर्णाक्षो महादेवस्तपसा तोषितो मया।।
ततोऽथ भगवानाह प्रीतो मा वै युधिष्ठिर।
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि।।
अपराजितश्च युद्धेषु तेजश्चैवानलोपमम्।
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ।।
मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया।
वर्षायुतासहस्राणां सहस्रं शतमेव च।।
ततो मां भगवान्प्रीत इदं वचनमब्रवीत्।
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते।।
ततः प्रणम्य शिरसा इदं वचनमब्रवम्।
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः।।
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा।
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत।।
जैगीषव्य उवाच।
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर।।
गर्ग उवाच।
चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम्।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव।।
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्।।
पराशर उवाच।
प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप।
महातपा महातेजा महायोगी महायशाः।।
वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः।
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात्।।
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः।
मयि सम्भावना यास्याः फलात्कृष्णो भविष्यति।।
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति।
वेदानां च स वै वक्ता कुरुवंशकरस्तथा।।
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः।
भविष्यति महेन्द्रस्य दयितः स महामुनिः।।
अजरश्चामरश्चैव पराशर सुतस्तव।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत।
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः।।
माण्डव्य उवाच।
अचोरश्चोरशङ्कायां शूले भिन्नो ह्यहं तदा।।
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर।
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम्।।
रुजा शूलकृता चैव न ते विप्र भविष्यति।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यति।।
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु।।
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि।
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम्।।
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः।
महेश्वरो महाराजः कृत्तिवासा महाद्युतिः।
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत।।
गालव उवाच।
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः।
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्।।
कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम्।
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ।।
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने।
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्।।
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः।
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये।।
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर।
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्।
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून्।।
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः।
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव।।
दिष्ट्या दृष्टोसि मे पुत्र कृतविद्य इहागत।।
वैशम्पायन उवाच।
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः।
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः।।
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः।
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः।।
उपमन्युर्मयि प्राह तपन्निव दिवाकरः।
अशुभैः पापकर्माणो ये नराः कलुषीकृताः।।
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः।
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः।।
सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे।
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम्।।
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह।
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति
मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः।
विधूय सर्वपापानि देवैः सह वसन्ति ते।।
भित्त्वाभित्त्वा च कूलानि हुत्वा सर्वमिदं जगत्।
जयेद्देवं विरूपाक्षं न स पापेन लिप्यते।।
सर्वलक्षणहीनोपि युक्तो वा सर्वपातकैः।
सर्वं तुदति तत्पापं भावयञ्शिवमात्मना
कीटपक्षिपतङ्गानां तिरश्चामपि केशव।
महादेवप्रपन्नानां न भयं विद्यते क्वचित्।।
एवमेव महादेवं भक्ता ये मानवा भुवि।
न ते संसारवशगा इति मे निश्चिता मतिः।
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम्।।
विष्णुरुवाच।
आदित्यचन्द्रावनिलानलौ च
द्यौर्भूमिरापो वसवोऽथ विश्वे।
धाताऽर्यमा शुक्रबृहस्पती च
वेदा यज्ञा दक्षिणा वेदवाहाः।
सोमो यष्टा यच्च हव्यं हविश्च
रक्षा दीक्षा संयमा ये च केचित्।।
स्वाहा वौषट् ब्राह्मणाः सौरभेयी
धर्मं चाग्र्यं कालचक्रं बलं च।
यशो दमो बुद्धिमतां स्थितिश्च
शुभाशुभं ये मुनयश्च सप्त।।
अग्र्या बुद्धिर्मनसा दर्शने च
स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः।
गणा देवानामूष्मपाः सोमपाश्च
लेखाः सुयामास्तुषिता ब्रह्मकायाः।।
आभासुरा गन्धपा धूमपाश्च
वाचा विरुद्धाश्च मनोविरुद्धाः।
शुद्धाश्च निर्माणरताश्च देवाः
स्पर्शाशना दर्शपा आज्यपाश्च।।
चिन्त्यद्योता ये च देवेषु मुख्या
ये चाप्यन्ते देवताश्चाजमीढ।
सुपर्णगन्धर्वपिशाचदानवा
यक्षास्तथा चारणपन्नगाश्च।।
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं
दुःखं सुखं दुःखमनन्तरं च।
साङ्ख्यं योगं तत्पराणां परं च
शर्वाञ्जातं विद्धि य***********।।
तत्सम्भूता भूतकृतो वरेण्या
सर्वे देवा भुवनस्यास्य गोपाः।
आविश्येमां धरणीं येऽभ्यरक्षन्
पुरातनीं तस्य देवस्य सृष्टिम्।।
विचिन्वन्तस्तपसा तत्स्थवीयः
किञ्चित्तत्त्वं प्राणहेतोर्नतोस्मि।
ददातु वेदः स वरानिहेष्टा-
नभिष्टुतोः नः प्रभुरव्ययः सदा।।
इमं स्तवं सन्नियतेन्द्रियश्च
भूत्वा शुचिर्यः पुरुषः पठेत।
अभग्नयोगो नियतो मासमेकं
सम्प्राप्नुयादश्वमेधे फलं यत्।।
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु
जयेन्नृपः पार्थ महीं च कृत्स्नाम्।
वैश्यो लाभं प्राप्नुयान्नैपुणं च
शूद्रो गतिं प्रेत्य तथा सुखं च।।
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः।।
यावन्त्यस्य शरीरेषु रोमकूपाणि भारतः।
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनपञ्चाशोऽध्यायः।। 49 ।।