अनुशासनपर्व
अध्यायः ५
भीष्म उवाच।
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः।
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत।।
तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत्।
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा।।
मतङ्ग उवाच।
इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः।
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम्।।
शक्र उवाच।
चण्डालयोनो जातेन नावाप्यं वै कथञ्चन।
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः।।
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः।
अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्टेन शतं समाः।।
सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः।
त्वगस्थिभूतो धर्मात्मा स ततापेति नः श्रुतम्।।
तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः।
वराणामीश्वरो दाता सर्वभूतहिते रतः।।
शक्र उवाच।
मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते।
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः।।
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन्।
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः।।
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा।
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते।।
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति।।
बह्वीस्तु संसरन्योनीर्जायमानः पनुःपुनः।
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति।।
तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः।
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः।।
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम्।
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे।।
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम्।
सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः।।
ये पापेभ्यः पापतमास्तेषामधम एव सः।
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम्।।
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम्।
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः।।
एकारामो ह्यहं शक्र निर्न्द्वद्वो निष्परिग्रहः।
अहिंसादममास्थाय कथं नार्हामि विप्रताम्।।
दैवं तु कथमेतद्वै यदहं मातृदोषतः।
एतामवस्थां सम्प्राप्तो धर्मज्ञः सन्पुरन्दरं।।
नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम्।
यदर्थं यत्नवानेव न लभे विप्रतां विभो।।
एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम्।
यदि तेऽहमनुग्राह्यः किचिद्वा सुकृतं मम।।
वैशम्पायन उवाच।
वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा।
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम्।।
यथा कामविहारी स्यां कामरूपी विहङ्गमः।
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्।।
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर।
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये।।
शक्र उवाच।
मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति।
स्त्रियः सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि।।
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि।
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति।।
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत।
प्राणांस्त्यक्त्वा मतङ्गोपि प्राप तत्स्थानमुत्तमम्।।
एवमेव परं स्थानं मर्त्यानां भरतर्षभ।
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चमोध्यायः।। 5 ।।