अनुशासनपर्व

अध्यायः ४

Anusasana Parva (Sanskrit) · Adhyaya 4
अक्षर का आकार

भीष्म उवाच।

एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः।
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः।।

तमुवाच ततः शक्रः पुनरेव महायशाः।
ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे।।

मतङ्ग परमं स्थानं प्रार्थयन्विनशिष्यसि।
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव।।

`विमार्गतो मार्गमाणः सर्वथा नभविष्यसि'।
न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते।
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि।।

मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया।
चिकीर्षस्येव तपसा सर्वथा नभविष्यसि।।

तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति।
स जायते पुल्कसो वा चण्डालो वाऽप्यसंशयः।।

पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते।
स तस्यामेव सुचिरं मतङ्ग परिवर्तते।।

ततो दशशते काले लभते शूद्रतामपि।
शूद्रयोनावपि ततो बहुशः परिवर्तते।।

ततस्त्रिंशद्गणे काले लभते वैश्यतामपि।
वैश्यतायां चिरं कालं तत्रैव परिवर्तते।
ततः षष्टिगुणे काले राजन्यो नाम जायते।।

ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम्।
ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते।।

ततस्तु द्विशते काले लभते काण्डपृष्ठताम्।
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते।।

ततस्तु त्रिशते काले लभते जपतामपि।
तं च प्राप्य चिरं कालं तत्रैव परिवर्तते।।

ततश्चतुःशते काले श्रोत्रियो नाम जायते।
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते।।

तदेवं शोकहर्षौ तु कामद्वेषौ च पुत्रक।
अतिमानातिवादौ च प्रविशेते द्विजाधमम्।।

तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम्।
अथ ते वै जयन्त्येनं तालं पक्वमिवापतेत्।।

मतङ्ग सम्प्रधार्यैवं यदहं त्वामचूचुदम्।
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्थोऽध्यायः।। 4 ।।।