अनुशासनपर्व
अध्यायः ६
युधिष्ठिर उवाच।
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना।।
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह।।
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह।।
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः।
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः।।
महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसंकुलः।।
ऋतीकस्यात्मजश्चैव शुनःशेपो महातपाः।
विमोक्षितो महासत्रात्पशुतामप्युपागतः।।
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा।
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः।।
नाभिवादयते ज्येष्ठं देवरातं नराधिप।
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः।।
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम्।
अवाक्शिरादिवं नीतो दक्षिणामाश्रितोदिशम्।।
विश्वामित्रस्य भगिनी नदी देवर्षिसेविता।
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता।।
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता।।
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा।
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः।।
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः।।
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत।।
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्।।
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव।
क्षत्रियस्येत्यतो जातमिदं कौहतूलं मम।।
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्।।
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे।।
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ।
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानदर्मपर्वणि षष्ठोऽध्यायः।। 6 ।।