अनुशासनपर्व
अध्यायः ४२
`सुपर्ण उवाच।
एवं दत्ताभयस्तेन ततोऽहमृषिसत्तमाः।
नष्टखेदश्रमभयः क्षणेन ह्यभवं तदा।।
स शनैर्याति भगवान्गत्या लघुपराक्रमः।
अहं तु सुमहावेगमास्तायानुव्रजामि तम्।।
स गत्वा दीर्घमध्वानमाकाशममितह्युतिः।
मनसाऽप्यगमं देवमाससादात्मतत्ववित्।।
अथ देवः समासाद्य मनसः सदृशं जवम्।
मोहयित्वा च मां तत्र क्षणेनान्तरधीयत।।
तत्राम्बुधरधीरेण भोशब्देनानुनादिना।
अयं भोऽहमिति प्राह वाक्यं वाक्यविशारदः।।
शब्दानुसारी तु ततस्तं देशमहमाव्रजम्।
तत्रापश्यं ततश्चाहं श्रीमद्धंसयुतं सरः।।
स तत्सरः समासाद्य भगवानात्मवित्तमः।
भोशब्दप्रतिसृष्टेन स्वरेण प्रतिवादिना।।
विवेश देवः स्वां योनिं मामिदं चाभ्यभाषत।
विशस्व सलिलं सौम्य सुखमत्र वसामहे।।
ततश्च प्राविशं तत्र सह तेन महात्मना।
दृष्टवानद्भुततरं तस्मिन्सरसि भास्वताम्।।
अग्नीनामप्रणीतानामिद्धानामिन्धनैर्विना।
दीप्तानामाज्यसिक्तानां स्यानेष्वर्चिष्मतां सदा।।
दीप्तिस्तेषामनाज्यानां प्राप्ताज्यानामिवाभवत्।
अनिद्धानामिव सतामिद्धानामिव भास्वताम्।।
अथाहं वरदं देवं नापश्यं तत्र सङ्गतम्।
ततः सम्मोहमापन्नो विषादभगमं परम्।।
अपश्यं चाग्निहोत्राणि शतशोऽथ सहस्रशः।
विधिना सम्प्रणीतानि धिष्ण्येष्वाज्यवतां तदा।।
असंभृष्टतलाश्चैव वेदीः कुसुमसंस्तृताः।
कुशपद्मोत्पलासङ्गाः कलशांश्च हिरण्मयान्।।
अग्निहोत्राणि चित्राणि शतशोऽथ सहस्रशः।
अग्निहोत्राय योग्यानि यानि द्रव्याणि कानिचित्।
तानि चात्र समृद्धानि दृष्टवानस्म्यनेकशः।।
मनोहृद्यतमश्चाग्निः सुरभिः पुण्यलक्षणः।
आज्यगन्धो मनोग्राही घ्राणचक्षुस्सुखावहः।।
तेषां तत्राग्निहोत्राणामीडितानां सहस्रशः।
समीपे त्वद्भुततममपश्यमहमव्ययम्।।
चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम्।
विमलादित्यभासानां स्थण्डिलानि सहस्रशः।
दृष्टान्यग्निसमीपे तु ध्युतिमन्ति महान्ति च।।
एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः।
प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम्।
ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः।।
सुसंमृष्टतलैस्तैस्तु बृहद्बिर्दीप्ततेजसैः।
पावकैः पावितात्माहमभवं लघुविक्रमः।।
ततोऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम्।
तं देशं प्रणमित्वाऽथ अन्वेष्टुमुपचक्रमे।।
तान्यनेकसहस्राणि पर्यटंस्तु महाजवात्।
अपश्यमानस्तं देवं ततोऽहं व्यथितोऽभवम्।।
ततस्तेष्वग्निहोत्रेषु ज्वलत्सु विमलार्चिषु।
भानुमत्सु न पश्यामि देवदेवं सनातनम्।।
ततोऽहं तानि दीप्तानि परीय व्यस्थितेन्द्रियः।
नान्तं तेषां प्रपश्यामि खेदश्च सहसाभवत्।।
विसृत्य सर्वतो दृष्टिं भयमोहसमन्वितः।
श्रमं परंममापन्नश्चिन्तयानस्त्वचेतनः।।
तस्मिन्न खलु वर्तेऽहं लोके यत्रैतदीदृशम्।
ऋग्यजुस्सामनिर्घोषः श्रूयते न च दृश्यते।।
न च पश्यामि तं देवं येनाहमिह चोदितः।
एवं चिन्तासभापन्नः प्रध्यातुमुपचक्रमे।।
ततश्चिन्तयतो मह्यं मोहेनाविष्टचेतसः।
महाशब्दः प्रादुरासीत्सुभृशं मे व्यथाकरः।।
अथाहं सहसा तत्र शृणोमि विपुलध्वनिम्।
अपश्यं च सुपर्णानां सहस्राण्ययुतानि च।।
अभ्यद्रवन्त मामेव विपुलद्युतिरंहसः।
तेषामहं प्रभावेण सर्वथैवावरोऽभवम्।।
सोऽहं समन्ततः सर्वैः सुपर्णैरतितेजसैः।
दृष्ट्वाऽऽत्मानं परिगतं सम्भ्रमं परमं गतः।।
विनयावनतो भूत्वा नमश्चक्रे महात्मने।
अनादिनिधनायैभिर्नामभिः परमात्मने।।
नारायणाय शुद्धाय शाश्वताय ध्रुवाय च।
भूतभव्यभवेशाय शिवाय शिवमूर्तये।।
शिवयोनेः शिवाद्यायि शिवपूज्यतमाय च।
घोररूपाय महते युगान्तकरणाय च।।
विश्वाय विश्वदेवाय विश्वेशाय महात्मने।
सहस्रोदरपादाय सहस्रनयनाय च।।
सहस्रबाहवे चैव सहस्रवदनाय च।
शुचिश्रवाय महते ऋतुसंवत्सराय च।।
ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः।
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च।।
बृहद्वेगाय तार्क्ष्याय वराहायैकशृङ्गिणे।
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने।।
हुताशायोर्ध्ववक्त्राय रौद्रानीकाय साधवे।
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः।।
गरुत्मते त्रिनेत्राय सुधर्माय वृषाकृते।
सम्म्राडुग्रे संकृतये विरजे सम्भवे भवे।।
वृषाय वृषरूपाय विभवे भूर्भुवाय व।
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च।।
अच्युताय तुषाराय वीराय च समाय च।
जिष्णवे पुरुहूताय वसिष्ठाय वराय च।।
सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने।
बर्हिषाय वरेण्याय वसवे विश्ववेधसे।।
किरीटिने सुकेशाय वासुदेवाय शुष्मिणे।
बृहदुक्थ्यसुषेणाय युग्ये दुन्दुभये तथा।।
भयेसखाय विभवे भरद्वाजेऽभयाय च।
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे।।
पुनर्वसुभृतत्वाय जीवप्रभविषाय च।
वषट्काराय स्वाहाय स्वधाय निधनाय च।।
ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः।
श्रीपद्मायात्मसदृशे धरणीधारिणे परे।।
सौम्यासौम्यस्वरूपाय सौम्ये सुमनसे नमः।
विश्वाय च सुविश्वाय विश्वरूपधराय च।।
केशवाय सुकेशाय रश्मिकेशाय भूरिणे।
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे।।
नारायणाग्र्यवपुषे पुरुहूताय वज्रिणे।
वर्मिणे वृषसेनाय धर्मसेनाय रोधसे।
मुनये ज्वरमुक्तायि ज्वराधिपतये नमः।।
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे।
तपोब्रह्मनिधानाय युगपर्यायिणे नमः।।
शरणाय शरण्याय भक्तेष्टशरणाय च।
नमः सर्वभवेशाय भूतभव्यभवाय च।।
पाहि मां देवदेवेश कोप्यजोसि सनातनः।
एवं गतोस्मि शरणं शरण्यं ब्रह्मयोनिनम्।।
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत।
भयं च मे व्यपगतं पक्षिणोऽन्तर्हिताऽभवन्।।
शृणोमि च गिरं दिव्यामन्तर्धानगतां शिवाम्।
मा भैर्गरुत्मन्दान्तोसि पुनः सेन्द्रान्दिवौकसः।
स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान्।।
ततस्तस्मिन्क्षणेनैव सहसैव महाद्युतिः।
प्रत्यदृश्यत तेजस्वी पुरस्तात्स ममान्तिके।।
समागम्य ततस्तेन शिवेन परमात्मना।
अपश्यं चाहमायान्तं नरनारायणाश्रमे।
चतुर्द्विगुणविन्यासं तं च देवं सनातनम्।।
यजतस्तानृषीन्देवान्वदतो ध्यायतो मुनीन्।
युक्तान्सिद्धान्नैष्ठिकांश्च जपतो यजतो गृहे।।
पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम्।
वन्दितं सिक्तसम्मृष्टं नरनारायणाश्रमम्।।
तदद्भुतमहं दृष्ट्वा विस्मितोस्मि तदाऽनघाः।
जगाम शिरसा देवं प्रयतेनान्तरात्मना।।
तदत्यद्भुतसङ्कासं किमेतदिति चिन्तयन्।
नाध्यगच्छं परं दिव्यं तस्य सर्वभवात्मनः।।
प्रणिपत्य सुदुर्धर्षं पुनः पुनरुदीक्ष्य च।
शिरस्यञ्जलिमाधाय विस्मयोत्फुल्ललोचनः।
अवोचं तमदीनार्थं श्रेष्ठानां श्रेष्ठमुत्तमम्।।
नमस्ते भगवन्देव भूतभव्यभवत्प्रभो।
यदेतदद्भुतं देव मया दृष्टं त्वदाश्रयम्।।
अनादिमद्यपर्यन्तं किं तच्छंसितुमर्हसि।
यदि जानासि सां भक्तं यदि वाऽनुग्रहो मयि।
शंस सर्वमशेषेण श्रोतव्यं यदि चेन्मया।।
स्वभावस्तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च।
भवद्भूतभविष्येश सर्वथा गहनं भवान्।।
ब्रूहि सर्वमशेषेण तदाश्चर्यं महामुने।
किं तदत्यद्भुतं वृत्तं तेष्वग्निषु समन्ततः।।
कानि तान्यग्निहोत्राणि केषां शब्दः श्रुतो मया।
शृण्वतां ब्रह्म सततमदृश्यानां महात्मनाम्।।
एतन्मे भगवन्कृष्ण ब्रूहि सर्वमशेषतः।
गृणन्त्यग्निसमीपेषु के च ते ब्रह्मराशयः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विचत्वारिंशोऽध्यायः।। 42 ।।