अनुशासनपर्व

अध्यायः ४१

Anusasana Parva (Sanskrit) · Adhyaya 41
अक्षर का आकार

`सुपर्ण उवाच।

सोऽहमामन्त्र्य पितरं तद्भावगतमानसः।
स्वमेवालयमासाद्य तमेवार्थमचिन्तयम्।।

तद्भावगतभावात्मा तद्भूतगतमानसः।
गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम्।।

धृतं बभूव हृदयं नारायणदिदृक्षया।
सोहं वेगं समास्थाय मनोमारुतवेगवान्।
रम्यां विशालां बदरीं गतो नारायणाश्रमम्।।

ततस्तत्र हरिं जगतः प्रभवं विभुम्।
गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम्।
ऋग्यजुस्सामभिश्चैनं तुष्टाव परया मुदा।।

अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम्।।

चतुर्द्विगुणपीनांसः शङ्कचक्रगदाधरः।
प्रादुर्बभूव पुरुषः पीतवासाः सनातनः।
मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः।।

संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः।
प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः।
दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा।।

तमहं पुरुषं दिव्यं व्रजन्तममितौजसम्।
अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम्।।

योजनानां सहस्राणि षष्टिमष्टौ तथा शतम्।
तथा शतसहस्रं च शतं द्विगुणमेव च।।

स गत्वा दीर्गमध्वानमपश्यमहमद्भुतम्।
महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम्।।

शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम्।
विवेश स महायोगी पावकं पावकद्युतिः।।

तत्र शंभुस्तपस्तेपे महादेवः सहोमया।
स तेन संविदं कृत्वा पावकं समतिक्रमत्।।

श्रमाभिभूतेन मया कथञ्चिदनुगम्यते।।

गत्वा स दीर्घमध्वानं भास्करेणावभासितम्।
अभास्करममर्यादं विवेश सुमहत्तमः।।

अथ दृष्टिः प्रतिहता मम तत्र बभूव ह।
यथास्वभावं भूतात्मा विवेश स महाद्युतिः।।

ततोऽहमभवं मूढो जडान्धबधिरोपमः।
दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः।।

अविजानन्नहं किञ्चित्तस्मिंस्तमसि संवृते।
ससंभ्रान्तेन मनसा व्यथां परमिकां गतः।।

सोऽहं प्रपन्नः शरणं देवदेवं सनातनम्।
प्राञ्चलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान्।।

भगवन्भूतभव्येश भवद्भूतकृदव्यय।
शरणं सम्प्रपन्नं मां त्रातुमर्हस्यरिंदम।।

अहं तु तत्त्वजिज्ञासुः कोसि कस्यासि कुत्र वा।
सम्प्राप्तः पदवीं देव स मां संत्रातुमर्हसि।।

आविर्भूतः पुराणात्मा मामेहीति सनातनः।
ततोपरान्ततो देवो विश्वस्य गतिरात्मवान्।
मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः।।

स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना।
श्रमं मे जनयामास भयं चाभयदः प्रभुः।।

खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः।
शब्देनाश्वासयामास जगाहे च तमो महत्।।

अहं तमेवानुगतः श्रमालसपदश्चरन्।
मनसा देवदेवेशं ध्यातुं समुपचक्रमे।।

तथागतं तु मां ज्ञात्वा भगवानमितद्युतिः।
तमः प्रणाशयामास ममानुग्रहकाङ्क्षया।।

ततः प्रनष्टे तमसि तमहं दीप्ततेजसम्।
अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम्।।

स्वयंप्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः।
अपश्यमहमव्यग्रस्तस्मिन्देशे सहस्रशः।।

न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च।
न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः।।

तत्र तूर्याण्यनेकानि गीतानि मधुराणि च।
अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम्।।

स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः।
मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः।।

अगतिस्तत्र देवानामसुराणां तथैव च।
गन्धर्वनागयक्षाणां राक्षसानां तथैव च।।

स्वयंप्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः।
येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम्।।

स च तानप्यतिक्रम्य दैवतैरपि पूजितः।
विवेश ज्वलनं दीप्तमनिन्धनमनौपमम्।।

ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम्।
दैत्यदानवरक्षोभिर्दैवतैश्चापि दुस्सहम्।।

ज्वालामालिनमासाद्य तमग्निमहमव्ययम्।
अविषह्यतमं मत्वा मनसेदमचिन्तयम्।।

मया हि समरेष्वग्निरनेकेषु महाद्युतिः।
प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित्।।

अयं च दुस्सहः शश्वत्तेजसाऽतिहुताशनः।
अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान्।।

स तथा दह्यमानोपि तेजसा दीप्तवर्चसा।
प्रपन्नः शरणं देवं शङ्कचक्रगदाधरम्।।

भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो।
यथा मां न दहेदग्निः सद्यो देव तथा कुरु।।

एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः।
मा भैरिति वचः प्राह मेघगम्बीरनिस्वनः।।

स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः।
मम त्वं विदितः सौम्य यथावत्तत्वदर्शने।।

ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत्।
वैनतेय ममाप्येवमहं वेद्यः कथञ्चन।।

महदेतत्स्वरूपं मे न ते वेद्यं कथञ्चन।
मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः।।
निर्ममा निरहङ्कारा निराशीर्बन्धनायुताः।।

भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम।
स्थूलंमां वेत्स्यसे तस्माज्जगतः कारणेस्थितम्'।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकचत्वारिंशोऽध्यायः।। 41 ।।