अनुशासनपर्व
अध्यायः ४३
`भगवानुवाच।
मां न देवा न गन्धर्वा नासुरा न व राक्षसाः।
विदुस्तत्वेन सत्वस्थं सूक्ष्मात्मानमवस्थितम्।।
चतुर्धाऽहं विभक्तात्मा लोकानां हितकाम्यया।
भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः।।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
मनो बुद्धिश्च चेतश्च तमः सत्वं रजस्तथा।।
प्रकृतिर्विकृतिश्चैव विद्याविद्ये शुभाशुभे।
मत्त एतानि जायन्ते नाहमेभ्यः कथञ्चन।।
यत्किंचिच्छ्रेयसा युक्तं श्रेयस्करमनुत्तमम्।
धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः।।
यत्स्वभावात्मतत्वज्ञैः कारणैरुपलक्ष्यते।
अनादिमध्यनिधनः सोन्तरात्माऽस्मि शाश्वतः।।
यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः।
गृह्यते सूक्ष्मभावज्ञैः सोऽविभाव्योस्मि शाश्वतः।।
तत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत्।
सोहङ्गतः सर्वसत्वः सर्वस्य प्रभवोऽव्ययः।।
मत्तो जायन्ति भूतानि मया धार्यन्त्यहर्निशम्।
मय्येव विलयं यान्ति प्रलये पन्नगाशन।।
यो मां यथा वेदयति तथा तस्यास्मि काश्यप।
मनोबुद्धिगतः श्रेयो विदधामि विहङ्गम।।
मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम।
शृणु योऽहं यतश्चाहं यदर्थश्चाहमुद्यतः।।
ये केचिन्नियतात्मानस्त्रेताग्निपरमार्चिताः।
अग्निकार्यपरा नित्यं जपहोमपरायणाः।।
आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः।
अनन्यमनसस्ते मां सर्वे वै समुपासते।।
यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः।
अग्नीनभ्युद्ययुः शश्वदग्निष्वेवाभिसंश्रिताः।।
अनन्यकार्याः शुचयो नित्यमग्निपरायणाः।
य एवंबुद्ध्यो धीरास्ते मां गच्छन्ति तादृशाः।।
अकामहतसङ्कल्पा ज्ञाने नित्यं समाहिताः।
आत्मन्यग्निं समाधाय निराहारा निराशिषः।।
विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः।
अनन्यमनसो धीराः स्वभावनियमान्विताः।।
यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम्।
तत्राग्नयः सन्निहिता दीप्यन्ते स्म निरिन्धनाः।।
ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः।
उपासीना गृणन्तोऽग्निमस्पष्टाक्षरभाषिणः।
आकाङ्क्षमाणाः शुचयस्तेष्वग्रिषु विहङ्गम।।
ये मया भावितात्मानो मय्येवाभिरताः सदा।
उपासते च मामेव ज्योतिर्भूता निरामयाः।।
तैर्हि तत्रैव वस्तव्यं नीरागादिभिरच्युतैः।
निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः।।
निर्मला निरहङ्कारा निरालम्बा निराशिषः।
मद्भक्ताः सततं तेवै भक्तांस्तानपि चाप्यहम्।।
चतुर्धाऽहं विभक्तात्मा चरामि जगतो हितः।
लोकानां धारणार्थाय विधानं विदधामि च।।
यथावत्तदशेषेण श्रोतुमर्हति मे भवान्।।
एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता।
द्वितीया सृजते तात भूतग्रामं चराचरम्।।
सृष्टं संहरते चैका जगत्स्थावरजङ्गमम्।
ज्ञातात्मनिष्ठा क्षपयन्मोहयन्तीव मायया।
क्षपयन्ती मोहयति आत्मनिष्ठा स्वमायया।।
चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा।
रक्षते चापि नियता सोहमस्मि नभश्वरः।।
मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम्।
अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः।।
यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः।
गृणन्ति वेदं सततं तेष्वग्निषु विहङ्गम।।
क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः।
तेषामहं तपो दीप्तं तेजः सम्यक्समाहितम्।
नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः।।
सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना।
शक्यः समासादयितुमहं वै ज्ञानचक्षुषा।।
मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम्।
मत्तश्च सम्प्रसूतान्वै विद्धि लोकान्सदैवतान्।।
मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्यिथः।
आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्यितः।।
सङ्कर्षणोऽहङ्कारे च प्रद्युम्नो मनसि स्यितः।
अन्यथा च चतुर्दा यत्सम्यक्त्वं श्रोतुमर्हसि।।
यत्तत्पद्ममभूत्पूर्वं तत्र ब्रह्मा व्यजायत।
ब्राह्मणश्चापि सम्भूतः शिव इत्यवधार्यताम्।।
शिवात्स्कन्दः संवभूव एतत्सृष्टिचतुष्टयम्।
दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः।।
दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते।
तदाऽहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताऽऽशुग।।
वेदव्रतपरा ये तु धीरा निश्चितबुद्ध्यः।
योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा।।
पञ्चभिः सम्प्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः।
वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम्।।
ये विदुर्जातसङ्कल्पास्ते मां पश्यन्ति तादृशाः।।
स्वं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम्।
तदात्मकोऽस्मि विज्ञेयो न चान्योस्मीति निश्चितम्।
वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम्।
शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम्।।
रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता।
ते न पश्यन्ति मे तत्वं तपसा महता ह्यपि।।
नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि।
द्रष्टुं वा वेदितुं वाऽपि न शक्या परमा गतिः।।
महामोहार्थपङ्के तु निमग्रानां गतिर्हरिः।
एकान्तिनो ध्यानपरा यतिभावाद्ब्रजन्ति माम्।।
सत्वयुक्ता मतिर्येषां केवलाऽऽत्मविनिश्चिता।
ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम्।।
अहिंसा सर्वभूतेषु तेष्ववस्तितमार्जवम्।
तेष्वेव च समाधाय सम्यगेति च मामजम्।।
यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम्।
यत्तेन तदशेषेण यथावच्छ्रोतुमर्हसि।।
ये त्वग्निहोत्रनियता जपयज्ञपरायणाः।
ते मामुपासते शश्वद्यांस्तांस्त्वं दृष्टवानसि।।
शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा।
शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम्।।
ये तु सांख्यं च योगं च ज्ञात्वाऽप्यधृतनिश्चयाः।
न ते गच्छन्ति कुशलाः परां गतिमनुत्तमाम्।।
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्माऽऽन्मविच्छुचिः।
आसादयति तद्ब्रह्म यत्र गत्वा न शोचति।।
शुद्धाभिजनसम्पन्नाः श्रद्धायुक्तेन चेतसा।
मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिं।।
यद्गह्यं परमं बुद्धेरलिङ्गग्रहणं च यत्।
तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः।।
न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः।
न चापः पृथिवी चैव नाकाशं न मनोगतिः।।
तस्माच्चैतानि सर्वाणि प्रजायन्ते विहङ्गम।
सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः।।
स्थूलदर्शनमेतन्मे यद्दृष्टं भवताऽनघ।
एतत्सूक्ष्मस्य तद्द्वारं कार्याणां कारणं त्वहम्।।
दृष्टो वै भवता तस्मात्सरस्यमितविक्रम।
ब्रह्मणो यदहोरात्रसङ्ख्याभिज्ञैर्विभाव्यते।।
एष कालस्त्वया तत्र सरस्यहमुपागतः।
मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः।
मुनयश्चापि मामेव जपयज्ञं प्रचक्षते।।
वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः।
बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः।।
मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत्।
ज्ञात्वा मामेव चैवान्ते निःसङ्गेनान्तरात्मना।।
अहं तेजो द्विजातीनां मम तेजो द्विजातयः।
मम यस्तेजसो देहः सोग्निरित्यवगम्यताम्।।
प्राणपालः शरीरेऽहं योगिनामहमीश्वरः।
सांख्यानामिदमेवाग्रे मयि सर्वमिदं जगत्।।
धर्ममर्तं च कामं च मोक्षं चैवार्जवं जपम्।
तमः सत्वं रजश्चैव कर्मजं च भवाप्ययम्।।
स तदाऽहं तथारूपस्त्वया दृष्टः सनातनः।
ततस्त्वहं परतरः शक्यः कालेन वेदितुम्।।
मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम्।
तदेवं परमो गुह्यो देवो नारायणो हरिः।
न तच्छक्यं भुजङ्गारे वेत्तुमभ्युदयान्वितैः।।
निरारम्भनमस्कारा निराशीर्बन्धनास्तथा।
गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम्।।
स्थूलोऽहमेवं विहग त्वया दृष्टस्तथाऽनघ।
एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन।।
मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा।
मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम्।।
एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम्।
एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम्।।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत।
पश्यतो मे महायोगी जगामात्मगतिर्गतिम्।।
एतदेवंविधं तस्य महिमानं महात्मनः।
अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा।।
एतद्वः सर्वमाख्यातं चेष्टितं तस्य धीमतः।
मयाऽनुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिचत्वारिंशोऽध्यायः।। 43 ।।