अनुशासनपर्व
अध्यायः ४०
`युधिष्ठर उवाच।
आत्मन्यग्नौ समाध्नाय य एते कुरुनन्दन।
द्विजातयो व्रतोपेता जपयज्ञपरायणाः।।
यजन्त्यारम्भयज्ञैश्च मानसं यज्ञमास्थिताः।
अग्निभ्यश्च परं नास्ति येषामेषोऽव्यवस्थितः।।
तेषां गतिर्महाप्राज्ञ कीदृशी किम्पराश्च ते।
एतदिच्छामि तत्वेन त्वत्तः श्रोतुं पितामह।।
भीष्म उवाच।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
वैकुण्ठस्य च संवादं सुपर्णस्य च भारत।।
अमृतस्य समुत्पत्तौ देवानामसुरैः सह।
षष्टिवर्षसहस्राणि दैवासुरमवर्तत।
तत्र देवास्तु दैतेयैर्वध्यन्ते भृशदारुणैः।
त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः।।
आर्तास्ते देवदेवेशं प्रपन्नाः शरणैषिणः।
पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः।।
ता दृष्ट्वा देवता ब्रह्मा सम्भ्रान्तेन्द्रियमानसः।
वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह।।
ततः स देवैः सहितः पद्मयोनिर्नरेश्वर।
तुष्टाव प्राञ्जलिर्भूत्वा नारायणमनामयम्।।
त्वद्रूपचिन्तनान्नाम्नां स्मरणादर्चनादपि।
तपोयोगादिभिश्चैव श्रेयो यान्ति मनीषिणः।।
भक्तवत्सल पद्माक्ष परमेश्वर पापहन्।
परमात्माऽविकाराद्य नारायण नमोंस्तु ते।।
नमस्ते सर्वलोकादे सर्वात्मामितविक्रम।
सर्वभूतभविष्येश सर्वभूतमहेश्वर
देवानामपि देवस्त्वं सर्वविद्यापरायणः।
जगद्वीजसमाहार जगतः परमो ह्यसि।।
त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः।
लोकांश्च लोकपालांश्च ऋषींश्च जयतांवर।।
वेदाः साङ्गोपनिषदः सरहस्याः ससङ्ग्रहाः।
सोङ्काराः सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम्।।
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्।
तपस्विनां तपश्चैव दैवतं देवतास्वपि।।
एवमादिपुरस्कारैर्ऋक्सामयजुषां गणैः।
वैकुण्ठं तुष्टुवुर्देवाः सर्वे ब्रह्मर्षिभिः सह।।
ततोऽन्तरिक्षे वागासीन्मेघगम्भीरनिस्वना।
जेष्यध्वं दानवान्यूयं मयैव सह सङ्गरे।।
ततो देवगणानां च दानवानां च युध्यताम्।
प्रादुरासीन्महातेजाः शार्ङ्गचक्रगदाधरः।।
सुपर्णपृष्ठमास्थाय तेजसा प्रदहन्निव।
व्यधमद्दानवान्सर्वान्बाहुद्रविणतेजसा।।
तं समासाद्य समरे दैत्यदानवपुङ्गवाः।
व्यनश्यन्त महाराज पतङ्गा इव पावकम्।।
स विजित्यासुरान्सर्वान्दानवांश्च महामतिः।
पश्यतामेव देवानां तत्रैवान्तरधीयत।।
तं दृष्ट्वान्तर्हितं देवा विष्णुं देवामितद्युतिम्।
विस्मयोत्फुल्लनयना ब्रह्माणमिदमब्रुवन्।।
भगवन्सर्वलोकेश सर्वलोकपितामह।
इदमत्यद्भुतं वृत्तं तन्नः शंसितुमर्हसि।।
दैवासुरेऽस्मिन्सङ्ग्रामे त्राता येन वयं विभो।
एतद्विज्ञातुमिच्छामः कुतोसौ कश्च तत्वतः।।
कोऽयमस्मान्परित्राय तूष्णीमेव यथागतम्।
प्रतिप्रयातो दिव्यात्मा तं नः शंसितुमर्हसि।।
एवमुक्तः सुरैः सर्वैर्वचनं वचनार्थवित्।
उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो।।
ब्रह्मोवाच।
न ह्येनं वेद तत्वेन भुवनं भुवनेश्वरम्।
सङ्ख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम्।।
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
सुपर्णस्य च संवादमृषीणां चापि देवताः।।
पुरा ब्रह्मर्षयश्चैव सिद्दाश्च भुवनेश्वरम्।
आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः।।
तेषां कथयतां तत्र कथान्ते पततां वरः।
प्रादुरासीन्महातेजा वाहश्चक्रगदाभृतः।।
स तानृषीन्समासाद्य विनयावनताननः।
अवतीर्य महावीर्यस्तानृषीनभिजग्मिवान्।।
अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः।
उपाविशत तेजस्वी भूमौ वेगवतां वरः।।
तमासीनं महात्मानं वैनतेयं महाद्युतिम्।
ऋषयः परिपप्रच्छुर्महात्मानस्तपस्विनः।।
कौतूहलं वैनतेय परं नो हृदि वर्तते।
तस्य नान्योस्ति वक्तेह त्वामृते पन्नगाशन।।
तदाख्यातमिहेच्छामो भवता प्रश्नमुत्तमम्।
एवमुक्तः प्रत्युवाच प्राञ्जलिर्विनतासुतः।।
धन्योस्म्यनुगृहीतोस्मि यन्मां ब्रह्मर्षिसत्तमाः।
प्रष्टव्यं प्रष्टुमिच्छन्ति प्रीतिमन्तोऽनसूयकाः।।
किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः।
यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुमर्हथ।।
नमस्कृत्वा ह्यनन्ताय ततस्त ऋषिसत्तमाः।
प्रष्टुं प्रचक्रमुस्तत्र वैनतेयं महाबलम्।।
देवदेवं महात्मानं नारायणमनामयम्।
भवानुपास्ते वरदं कुतोऽसौ कश्च तत्वतः।।
प्रकृतिर्विकृतिर्वाऽस्य कीदृशी क्वनु संस्थितिः।
एतद्भवन्तं पृच्छामो देवोऽयं क्व कृतालयः।।
एथ भक्तप्रियो देवः प्रियभक्तस्तथैव च।
त्वं प्रियश्चास्य भक्तश्च नान्यः काश्यप विद्यते।।
मुष्णन्निव मनश्चक्षूंष्यविभाव्यतनुर्विभुः।
अनादिमध्यनिधनो न विद्मैनं कुतो ह्यसौ।।
वेदेष्वपि च विश्वात्मा गीयते न च विद्महे।
तत्वतस्तत्वभूतात्मा विभुर्नित्यः सनातनः।।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
गुणाश्चैषां यथासङ्ख्यं भावाभावौ तथैव च।।
तमः सत्वं रजश्चैव भावाश्चैव तदात्मकाः।
मनो बुद्धिश्च तेजश्च बुद्धिगम्यानि तत्वतः।
जायन्ते तात तस्माद्धि तिष्ठते तेष्वसौ विभुः।।
सञ्चिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम्।
तस्य देवस्य तत्वेन तन्नः शंस यथातथम्।।
एतमेव परं प्रश्नं कौतूहलसमन्विताः।
एवं भवन्तं पृच्छामस्तन्नः शंसितुमर्हसि।।
सुपर्ण उवाच।
स्थूलतो यस्तु भगवांस्तेनैव स्वेन हेतुना।
त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपमास्थितः।।
मया तु महदाश्चर्यं पुरा दृष्टं सनातने।
देवे श्रीवत्सनिलये तच्छृणुध्वमशेषतः।।
न स्म शक्यो मया वेत्तुं न भवद्भिः कथञ्चन।
यथा मां प्राह भगवांस्तथा तच्छ्रुयतां मम।।
मयाऽमृतं देवतानां मिषतामृषिसत्तमाः।
हृतं विपाट्य तं यन्त्रं विद्राव्यामृतरक्षिणः।।
देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे।
उन्मथ्याशु गिरींश्चैव विक्षोभ्य च महोदधिं।।
तं दृष्ट्वा मम विक्रान्तं वागुवाचाशरीरिणी।
प्रीतोस्मि ते वैनतेय कर्मणाऽनेन सुव्रत।
अवृथा तेऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते।।
तामेवंवादिनीं वाचमहं प्रत्युक्तवांस्तदा।
ज्ञातुमिच्छामि कस्त्वं हि ततो मे दास्यसे वरम्।
प्रकृतिर्विकृतिर्वा त्वं देवो वा दानवोपि वा।।
ततो जलदगम्भीरं प्रहस्य वदतांवरः।
उंवाच वरदः प्रीतः काले त्वं माऽभिवेत्स्यसि।।
वाहनं भव मे साधो वरं दद्मि तवोत्तमम्।
न ते वीर्येण सदृशः कश्चिल्लोके भविष्यति।।
पतङ्ग पततांश्रेष्ठ न देवो नापि दानवः।
मत्सखित्वमनुप्राप्तो दुर्धर्षश्च भविष्यसि।।
तमब्रवं देवदेवं मामेवंवादिनं परम्।
प्रयतः प्राञ्जलिर्भूत्वा प्रणम्य शिरसा विभुम्।।
एवमेतन्महाबाहो सर्वमेतद्भविष्यति।
वाहनं ते भविष्यामि यथा वदति मां भवान्।।
मम चापि महाबुद्धे निश्चयं श्रूयतामिति।
ध्वजस्तेऽहं भविष्यामि रथस्थस्य न संशयः।।
तथास्त्विति स मामुक्त्वा भूयः प्राह महामनाः।
न ते गतिविघातोऽद्य भविष्यत्यमृतं विना।।
एवं कृत्वा तु समयं देवदेवः सनातनः।
मामुक्त्वा साधयस्वेति यथाऽभिप्रायतो गतः।।
ततोऽहं कृतसंवादो येन केनापि सत्तमाः।
कौतूहलसमाविष्टः पितरं कश्यपं गतः।।
सोहं पितरमासाद्य प्रणिपत्याभिवाद्य च।
सर्वमेतद्यथातथ्यमुक्तवान्पितुरन्तिके।।
श्रुत्वा तु भगवान्मह्यं ध्यानमेवान्वपद्यत।
स मुहूर्तमिव ध्यात्वा मामाह वदतां वरः।।
धन्योस्यनुगृहीतश्च यत्त्वं तेन महात्मना।
संवादं कृतवांस्तात गुह्येन परमात्मना।।
स्थूलदृश्यः स भगवांस्तेन तेनैव हेतुना।
दृश्यतेऽव्यक्तरूपस्थः प्रधानप्रभवाप्ययः।।
मया हि स महातेजा नान्ययोगसमाधिना।
तपसोग्रेण तेजस्वी तोषितस्तपसांनिधिः।।
ततो मे दर्शयामास तोषयन्निव पुत्रक।
श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः।।
रक्तनीलासितनिभः सहस्रोदरपाणिमान्।
द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः।।
अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा।
तमुपासन्ति परमं गुह्यमक्षरमव्ययम्।।
समासाद्य तु तं विश्वमहं मूर्ध्ना प्रणम्य च।
ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः।।
महामेघौघधीरेण स्वरेण जयतांवरः।
आभाष्य पुत्रपुत्रेति इदमाह धृतं वचः।।
त्वयाऽभ्युदयकामेन तपश्चीर्णं महामुने।
अमुक्तस्त्वं समासङ्गैरविमुक्तोऽद्य पश्यसि।।
यदा सङ्गैर्विमुक्तश्च गतमोहो गतस्पृहः।
भविष्यसि सदा ब्रह्म मामनुध्यास्यसे द्विज।।
ऐकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः।
ज्ञास्यसे मां ततो ब्रह्मन्वीतमोहश्च तत्वतः।।
तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा।
विश्वरूपेण देवेन पुरुषेण महात्मना।
तमेवाराधय क्षिप्रं तमाराध्य न सीदसि।।
सोहमेवं भगवता पित्रा ब्रह्मर्षिसत्तमाः।
अनुनीतो यथान्यायं स्वमेव भवनं गतः।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चत्वारिंशोऽध्यायः।। 40 ।।