अनुशासनपर्व

अध्यायः ३९

Anusasana Parva (Sanskrit) · Adhyaya 39
अक्षर का आकार

`सनत्कुमार उवाच।

अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि।
एताभ्यामीश्वरं विन्द्यादूर्ध्वस्रोतस्तथैव च।।

कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः।
बुद्धीन्द्रियाणामपि तु ईश्वरो मन उच्यते।।

मनसः पञ्चभूतानि सगुणान्याहुरीश्वरम्।
भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम्।।

भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै।
कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः।।

ततः सर्वाणि भूतानि स्थावराणि चराणि च।
महाभूतानि दग्धानि स्वां योनिं गमितानि वै।।

कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका।
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा।।

जगत्प्रलीनं जगति जगच्चापि प्रलीयते।
नष्टिगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा।।

ततो मयूखजालेन सूर्यस्त्वापीयते जलम्।
रसात्मा लीयते चार्के तथा ब्राह्मणसत्तम।।

अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा।
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते।।

तं तथा विस्फुरद्वह्निं वायुर्जरयते महान्।
महता बलवेगेन आदत्ते तं हि भानुमान्।।

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्।।

तस्य तं निनदं शब्दमादत्ते वै मनस्तदा।
स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै।।

भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम्।
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते।।

सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा।
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम।।

विनष्टे च तदा चित्ते अहङ्कारोऽभवन्महान्।
अहङ्कारं तदादत्ते महान्ब्रह्मा प्रजापतिः।।

अभिमाने विनष्टे तु महान्ब्रह्मा विराजते।
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम्।।

येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना।
मूर्तं जलेचरमपि व्यवसायगुणात्मकम्।
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम्।।

एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्।।

आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोधिभूतं दिशोधिदैवतं।।

वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोधिभूतं विद्युदधिदैवतं स्यात्।।

ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं सूर्योधिदैवतं स्यात्।।

आपश्चतुर्थं भूतं जिह्वाध्यात्मं रसोधिभूतं वरुणोधिदैवतं स्यात्।।

पृथिवी पञ्चमं भूतं ध्राणमध्यात्मं गन्धोधिभूतं वायुरधिदैवतं स्यात्।।

पाञ्चभौतिकमेतच्चतुष्टयं वर्णितम्। अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः।।

पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात्।।

हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात्।।

पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतं स्यात्।।

उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरवधिदैवतं स्यात्।

वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतं स्यात्।।

मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात्।।

अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात्।

बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माधिदैवतं स्यात्।।

एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते सम्हरते च। कस्मात्क्रीडार्थम्।।

यथाऽऽदित्योंऽशुजालं क्षिपति सम्हरते च एवमव्यक्तो गुणान्सृजति सम्हरते च।।

यथाऽर्णवादूर्मिमालानिच यश्चोर्ध्वमुत्तिष्ठते सम्हरते च।
यथा चान्तरिक्षादभ्रमाकाशमुत्तिष्ठति स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्राणशत्।
एवमव्यक्तो गुणान्सृजति सम्हरति च।।

यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो भगवान्लोकान्प्रकाशयति प्रवेशयते च।।

एवं चेतनश्च भगवान्पञ्चविंशः शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा च। भगवतोऽव्यक्तस्य क्रियावतोक्रियावतश्च प्रकृतिः क्रियावानजरामरः क्षेत्रज्ञो नारायणाख्यः पुरुषः।।

भीष्म उवाच।

इत्येतन्नारदायोक्तं कुमारेण च धीमता।
एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत्।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।