अनुशासनपर्व

अध्यायः ३८

Anusasana Parva (Sanskrit) · Adhyaya 38
अक्षर का आकार

`युधिष्ठिर उवाच।

क्लिश्यमानेषु भूतेषु जातीमरणसागरे।
यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सनत्कुमारस्य सतः संवादं नारदस्य च।।

सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः।
पूर्वजातास्त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः।।

सनकः सनन्दनश्चैव तृतीयश्च सनातनः।
जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः।।

चतुर्थश्चैव तेषां स भगवान्योगवित्तमः।
सनत्कुमार इति वै कथयन्ति महर्षयः।।

हैरण्यगर्भः स मुनिर्वसिष्ठः पञ्चमः स्मृतः।
षष्ठः स्थाणुः स भगवानमेयात्मा त्रिशूलधृत्।।

ततोऽपरे समुत्पन्नाः पावकादारुणे क्रतौ।
मनसा स्वयंभुवो हीमे मरीचिप्रमुखास्तथा।।

भुगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा।
अनुजोङ्गिरसोऽथात्रिः पुलस्त्योत्रेस्तथाऽनुजः।।

पुलस्त्यस्यानुजो विद्वान्पुलहो न महाद्युतिः।
पठ्यन्ते ब्रह्मजा ह्येते विद्वद्बिरमितौजसः।।

सर्वमेतन्महाराज कुर्वन्नादिगुरुर्महान्।
प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः।।

मूर्तिमन्तोऽमृतीभूतास्तेजसाऽतितपोन्विताः।
सनकप्रभृतयस्तत्र ये च प्राप्ताः परं पदम्।
कृत्स्नं क्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात्।।

सनत्कुमारस्तु विभुर्योगमास्थाय योगवित्।
त्रीँल्लोकानचरच्छश्वदैर्येण परेण हि।।

रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः।
सूक्ष्ममष्टगुणं राजन्नितरे नृपसत्तम।।

मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते।
नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे।।

सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः।
सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः।।

इतिहासपुराणे च श्रुतिरेषा सनातनी।
ब्राह्मणा वरदानेतान्प्राहुर्वेदान्तपारगाः।।

एतेषां पितरस्तात पुत्रा इत्यनुचक्षते।
गणाः सप्त महाराज मूर्तयोऽमूर्तयस्तथा।।

पितृणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः।
देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम।।

कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव त।
देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतम्।।

गौतमादपि कौण्डिन्याद्बारद्वाजात्तथैव च।
मार्कण्डेयात्तथैवैतदृषेर्देवमतादपि।।

पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम्।
परं रहस्यं वेदान्तं प्रियं हि परमात्मनः।।

अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारतः।
तदिहैकमनोबुद्धिः शृणुष्वावहितो नृप।
स्वायंभुवस्य संवादं नारदस्य च धीमतः।।

सनत्कुमारो भगवान्दिव्यं जज्वाल तेजसा।
अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः।।

स कदाचिन्महाभागो मेरुपृष्ठं समागमत्।
नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना।।

जिज्ञासमानावन्योन्यं सकाशे ब्रह्मणस्ततः।
ब्रह्म भागवतौ तात परमार्थार्थचिन्तकौ।।

मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम्।
क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानमत्तमम्।।

सनत्कुमारं तत्वज्ञं भगवन्तमरिंदम।
लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम्।
सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम्।।

साङ्ख्ययोगं च यो वेद पाणावामलकं यथा।
नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः।।

नारद उवाच।

त्रयोविंशतितत्वस्य अव्यक्तस्य महामुने।
प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्वतः।।

अध्यात्ममधिभूतं च अधिदैवं तथैव च।
कालसङ्ख्याश्च सर्गं च स्रष्टारं पुरुषं प्रभुम्।

यं विस्वमुपजीवन्ति येन सर्वमिदं ततम्।
यं प्राप्य न निवर्तन्ते तद्भवान्वक्तुमर्हति।।

सनत्कुमार उवाच।

यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम्।
तं वै शृणु महाबुद्धे नारायणमनामयम्।।

एष नारायणो नाम यं विश्वमुपजीवति।
एष स्रष्टा विधाता च भर्ता पालयिता प्रभुः।।

प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः।
एतावदेव वक्तव्यं मया नारद पृच्छते।।

परं न वेद्मि तत्सर्गं यावांश्चायं यथाप्यहम्।
श्रूयतामानुपूर्व्येण न च सर्गः प्रयत्नतः।।

यथा कालपरीमाणं तत्वानामृषिसत्तम।
अध्यात्ममधिभूतं च अधिदैवं तथैव च।
कालसंख्यां च सर्गं च सर्वमेव महामुने।।

तमसः कुर्वतः सर्गं तामसो ह्यभिधीयते।
ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः।।

पर्यायनामान्येतस्य कथयन्ति मनीषिणः।
तानि ते सम्प्रवक्ष्यामि तदिहैकमनाः शृणु।।

महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा।
वेदास्तपांसि यज्ञाश्च धर्माश्च भगवान्विभुः।
प्राणः सांवर्तकोग्निश्च व्योम कालस्तथैव च।।

नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै।
कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुसारतः।।

चतुर्युगसहस्राणि चतुर्युगमरिंदम।
प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्वदर्शिनः।।

दशकल्पसहस्राणि अव्ययस्य महानिशा।
तथैव दिवसं प्राहुर्योगाः सांख्याश्च तत्वतः।।

निशासुप्तोथ भगवान्क्षपान्ते प्रत्यबुध्यत।
पश्चाद्बुद्ध्वा ससर्जापस्तासु वीर्यमवासृजत्।।

तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्।
अहंकृत्वा ततस्तस्मिन्ससर्ज प्रभुरीश्वरः।।

हिरण्यगर्भं विस्वात्मा ब्रह्माणां जलवन्मुनिम्।
भूतभव्यभविष्यस्य कर्तारमनघं विभुम्।
मूर्तिमन्तं महात्मानं विश्वशभुं स्वयंभुवम्।।

अणिमा लघिमा प्राप्तिरीशानो ज्योतिषां नरम्।
चक्रे तिरोधां भगवानेत्कृत्वा महायशाः।।

एतस्यापि निशामाहुर्वेदवेदाङ्गपारगाः।
पञ्चकल्पसहस्राणि अहरेतावदेव च।।

स सर्गं कुरुत ब्रह्मा तामसश्चानुपूर्व्यशः।
सृजतेऽहं त्वहंकारं परमेष्ठिनमव्ययम्।।

अहङ्कारेणैव लोका व्याप्ताः साहंकृतेन वै।
येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे।।

देवर्षिदानवनरा यक्षगन्धर्वकिन्नराः।
उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च।।

एतस्यापि निशामाहुस्तृतीयामथ कुर्वतः।
त्रीणि कल्पसहस्राणि अहरेतावदेव तु।।

अहङ्कारस्तु सृजति महाभूतानि पञ्च वै।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।।

एतेषां गुणतत्वानि पञ्च प्राहुर्द्विजातयः।
शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च।।

गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः।
नोत्तिष्ठन्त्यवशीभूताः सक्ता अव्यक्तसागरे।।

एतेषामिह वै सर्वं चतुर्थमिह कुर्वतः।
चतुर्युगसहस्रे वै अहोरात्रास्तथैव च।।

अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते।
इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात्।।

मनः सर्वमिदं तात विश्वं सर्वमिदं जगत्।
न तथान्यानि भूतानि बलवन्ति यथा मनः।।

एतस्यापि ह वै सर्गं षष्ठमाहुर्द्विजातयः।
अहः कल्पसहस्रं वै रात्रिरेतावती तथा।।

ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्रह्मणो विदुः।
अष्टमं चाप्यधःस्रोतस्तिर्यक्तु नवमः स्मृतः।।

एतानि नव सर्गाणि तत्वानि च महामुने।
चतुर्विंशतितत्वानि तत्वसंख्यानि तेऽनघ।।

सर्वस्य प्रभवः पूर्वमुक्तो नारायणः प्रभुः।
अव्ययः प्रभवश्चैव अव्यक्तस्य महामुने।
प्रवक्ष्याम्यपरं तत्वं यस्य यस्येश्वरश्च यः।।

अध्यात्ममधिभूतं च अधिदैवं तथैव च।
यथाश्रुतं यथादृष्टं तत्वतो वै निबोध मे।।'

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टत्रिंशोऽध्यायः।। 38 ।।