अनुशासनपर्व
अध्यायः ३५
Anusasana Parva (Sanskrit) · Adhyaya 35
युधिष्ठिर उवाच।
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना।
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत्।।
भीष्म उवाच।
`देवे नारायणे भक्तिः शंकरे साधुपूजया।
ध्यानेनाथ जपः कार्यः स्वधर्मैः शुचिचेतसा।।'
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्।
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत्।।
प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम्।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्।।
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्।।
अनभिध्या परस्वेषु सर्वसत्वेषु सौहृदम्।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्।।
तस्माद्वाक्वायमनसा नाचरेदशुभं नरः।
शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि।
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम्।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चत्रिंशोऽध्यायः।। 35 ।।