अनुशासनपर्व

अध्यायः ३४

Anusasana Parva (Sanskrit) · Adhyaya 34
अक्षर का आकार

युधिष्ठिर उवाच।

स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत्।
एतस्मिन्संशये राजन्यथावद्वक्तुमर्हसि।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
भङ्गास्वनेन शक्रस्य यथा वैरमभूत्पुरा।।

पुरा भङ्गास्वनो नाम राजर्षिरतिधार्मिकः।
अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत्।।

अग्निष्टुतं स राजर्षिरिन्द्रद्विष्टं महाबलः।
प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते।।

इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः।
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः।
न चैवास्यान्तरं राजन्स ददर्श महात्मनः।।

कस्य चित्त्वथ कालस्य मृगयां गतवान्नृपः।
इदमन्तरमित्येव शक्रो नृपममोहयत्।।

एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः।
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा।।

इतश्चेतश्च धावन्वै श्रमतृष्णार्दितो नृप।
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा।।

सोऽवगाह्य सरस्तात पाययामास वाजिनम्।।

अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः।
अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान्।।

आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः।
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः।।

आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्।
इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम्।।

जातं महाबलानां मे तान्प्रवक्ष्यामि किन्नवहम्।
दारेषु चात्मकीयेषु पौरजानपदेषु च।।

मृदुत्वं च तनुत्वं च पराधीनत्वमेव च।
`हासभावादि लावण्यं स्त्रीगुणाद्वा कुतूहलम्।'
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः।।

व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः।।

पौरुषं विप्रनष्टं स्त्रीत्वं केनापि मेऽभवत्।
स्त्रीभावात्पुनरश्वं तं कथमारोढुमुत्सहे।।

महता त्वथ खेदेन आरुह्याश्वं नराधिपः।
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तमः।

पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते।
किन्न्विदं त्विति विज्ञाय विस्मयं परमं गताः।।

अथोवाच स राजर्षिः स्त्रीभूतो वदतांवरः।
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम्।
उद्भान्तः प्राविशं घोरामटवीं दैवमोहितः।।

अटव्यां च सुघोंरायां तृष्णार्तो नष्टचेतनः।
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम्।।

तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः।
`अतृप्त एव पुत्राणां दाराणां च धनस्य च।।'

नामगोत्राणि चाभाव्य दाराणां मन्त्रिणां तथा।
आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्तिवोत्तमः।
सम्प्रीत्या भुज्यतांराज्यं वनं यास्यामि पुत्रकाः।।

स पुत्राणां शतं राजा अभिषिच्य वनं गतः।
गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत।।

तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम्।
अथ साऽऽदाय तान्सर्वान्पूर्वपुत्रानभाषत।।

पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः।
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः।।

सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा।।

तान्दृष्ट्वा भातृभावेन भुञ्जानान्राज्यमुत्तमम्।
चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः।
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया।।

ततो ब्राह्मणरुपेण देवराजः शतक्रतुः।
भेदयामास तान्गत्वा नगरं वै नृपात्मजान्।।

भ्रातृणां नास्ति सौभ्रात्रं येऽप्येकस्य पितः सुताः।
कश्यपस्य सुराश्चैव असुराश्व सुतास्तथा।

राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः।।
यूयं भङ्गास्वनापत्यास्तापसस्येतरे सुताः।

युष्माकं भेदितास्ते तु युद्धेऽन्योन्यमपातयन्।
तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह।।

ब्राह्मणच्छद्मनाऽभ्येत्य तामिन्द्रोऽथान्वपृच्छत।
केन दुःखेन संतप्ता रोदिषि त्वं वरानने।।

ब्राह्म्णं तं ततो दृष्ट्वा सा स्त्री करणमब्रवीत्।
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते।।

अहं राजाऽभव विप्र तत्र पूर्वं शतं मम।
समुत्पन्नं सुरूपाणां पुत्राणां ब्राह्मणोत्तम।।

कदाचिन्मृगयां यात उद्धान्तो गहने वने।
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम।।

पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः।।

स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना।
आश्रमे जनितं ब्रह्मन्नीतं तन्नगरं मया।।

तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज।
एतच्छोचाम्यहं ब्रह्मन्दैवेन समभिप्लुता।।

इन्द्रस्तां दुःशितां दृष्ट्वा अब्रवीत्परुषं वचः।।

पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम्।
इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम्।
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया।।

इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः।
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः।
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि।।

प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ।।

पुत्रास्ते कतमे राजञ्जीवन्त्वेतत्प्रचक्ष्व मे।
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन्।।

तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः।
स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव।।

इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः।
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव।।

स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम्।
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ।।

स्त्र्युवाच।

स्त्रियास्त्वभ्यधिकः स्नेहो न तता पुरुषस्य वै।
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै।।

भीष्म उवाच।

एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह।
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि।।

वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत।
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसे।।

स्त्र्युवाच।

स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव।
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह।।

पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो।
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः।।

स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा।
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम्।।

रमाभि चाधिकं स्त्रीत्वे सत्यं वै देवसत्तम।
स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप।।

एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः।
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुस्त्रिंशोऽध्यायः।। 34 ।।