अनुशासनपर्व
अध्यायः ३६
`युधिष्ठिर उवाच।
चित्तं मे दूयते तात लोके परमविन्दतः।।
अशाश्वतमिदं सर्वं जगत्स्थावरजङ्गमम्।
क्रते नारायणं पुण्यं प्रतिभाति पितामह।।
नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः।
तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयाऽनघ।।
भीष्म उवाच।
युधिष्ठिर महाप्राज्ञ मया दृष्टं च सङ्गरे।।
युधिष्ठिर उवाच।
त्वत्त एव तु राजेन्द्र राजधर्माश्च पुष्कलाः।
श्रुतं पुराणमखिलं नारदेन निवेदितम्।
गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम्।।
एकान्तिधर्मनियमाः समासव्यासकल्पिताः।
कथिता वै महाभाग त्वया वै मदनुग्रहात्।।
लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः।
आतिथेयविधिश्चैव तपांसि नियमाश्च ये।।
वेदवादप्रसिद्धाश्च वाजपेयादयो मखाः।
यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः।।
जपयज्ञाश्च विविधा ब्राह्मणानां तपस्विनाम्।
एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम्।।
तेषां फलविशेषाश्च उञ्छधर्मास्तथैव च।
अहन्यहनि ये प्रोक्ता महायज्ञा द्विजातिनाम्।।
वेदश्रवणधर्माश्च ब्रह्मयज्ञफलं तथा।
वेदव्रतविधानं च नियमाश्चैव वैदिकाः।।
स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा।
उत्तरोत्तरसेवायामाश्रमाणां च यत्फलम्।।
प्रत्येकशश्च निष्ठायामाश्रमाणां महामते।
मासपक्षोपवासानां सम्यगुक्तफलं च यत्।।
अनाशितानां ये लोका ये च पञ्चतपा नराः।
वीराध्वानं प्रपन्नानां या गतिश्चाग्निहोत्रिणाम्।।
ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम्।
वर्षे स्थण्डिलशायीनां फलं यत्परिकीर्तितम्।।
लोके चक्रचराणां च द्विजानां यत्फलं स्मृतम्।
अन्नादीनां च दानानां यत्फलं परिकीर्तितम्।।
सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः।
राज्ञां धर्माश्च ये लोके सम्यक्पालयतां प्रजाः।।
ये च सत्यव्रता लोके ये तीर्थे कृतश्रमाः।
मातापितृपरा ये च गुरुवृत्तीश्च संश्रिताः।।
गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा।
त्यजन्त्यभिमुखाः प्राणान्निर्भयाः सत्वमाश्रिताः।।
सहस्रदक्षिणानां च या गतिर्वदनां वर।
ये च संध्यामुपासन्ते सम्यगुक्ता महाव्रताः।।
तथा योगविधानं च यद्ग्रन्थेष्वभिशब्दितम्।
वेदाद्याः श्रुतयश्चापि श्रुता मे गुरुसत्तम।।
सिद्धान्तनिर्णयाश्चापि द्वैपायनमुखोद्गताः।
श्रुताः पञ्च महायज्ञा येषु सर्वं प्रतिष्ठितम्।।
तत्प्रभेदेषु ये धर्मास्तेऽपि वै कृत्स्नशः श्रुताः।
न च दूषयितुं शक्याः सद्भिरुक्ता हि ते तथा।।
एतेषां किल धर्माणामुत्तमो वैष्णवो विधिः।
रक्षते भगवान्विष्णुर्भक्तमात्मशरीरवत्।।
कर्मणो हि कृतेस्येह कामितस्य द्विजोत्तम।
फलं ह्यवश्यं भोक्तव्यमृषिर्द्वैपायनोऽब्रवीत्।।
भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता।
न मे प्रीतिकरास्त्वेते विषोदर्का हि मे मताः।।
वधात्कृष्टतरं मन्ये गर्भवासं महाद्युते।
दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो।
ततः कष्टतराणीह गर्भवासे हि विन्दति।।
ततश्चाभ्याधिकां तीव्रां वेदनां लभते नरः।
गर्भापक्रमणे तात कर्मणासुपसर्पणे।।
तस्मान्मे निश्चयो जातो धर्मेष्वेतेषु भारत।
तदिच्छामि कुरुश्रेष्ठ त्वत्प्रसादान्महामते।
तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा।।
येनोष्णदा वैतरणी असिपत्रवनं च तत्।
कुण्डानि चाग्नितप्तानि क्षुरधारापथस्तथा।
शाल्मलीं च महाघोरामायसीं घोरकण्टकाम्।।
मातापितृकते चापि सुहृन्मित्रार्थकारणात्।
आत्महेतोश्च पापानि कृतानीह नरैश्च यैः।
तेषां फलोदयं कष्टमृषिर्द्वैपायनोऽब्रवीत्।।
कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम्।
रौरवे क्षिप्यमाणानां प्रहारैर्मथितात्मनाम्।।
स्तनतामपकृत्तानां पिबतामात्मशोणितम्।
तेषामेव प्रवदतां कारुण्यं नास्ति यन्त्रतः।।
तृष्णाशुष्कोष्ठकण्ठानां विह्वलानामचेतसाम्।
सर्वदुःखाभिभूतानां रुजार्तानां च क्रोशताम्।।
वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश।।
एकः करोति पापानि सहभोज्यानि बान्धवैः।
तेषामेकः फलं भुङ्क्ते कष्टं वैवस्वते गृहे।।
येन नैतां गतिं गच्छेन्न विण्मूत्रास्थिपिच्छिले।
विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते।।
को गर्भवासात्परतो नरकोऽन्यो विधीयते।
यत्र वासकृतो योगः कुक्षौ वासो विधीयते।।
जातो विस्तीर्णशोकः स्याद्भवेत विगतज्वरः।
न चैष लभ्यते कामो जातमात्रं हि मानवम्।
आविशन्तीह दुःखानि मनोवाक्कायिकानि तु।।
तैरस्वतन्त्रो भवति पीड्यमानो भयानकैः।
तैर्गर्भवासं गच्छति अवशो जायते तथा।।
अवशश्चेहते जन्तुर्व्रजत्यवश एव हि।
जरसा रूपविध्वंसं प्राप्नोत्यवश एव तु।।
शरीरभेदमाप्नोति जीर्यतेऽवश एव तु।
एवं ह्यनियतो मृत्युर्भवत्येव सदा नृषु।।
गर्भेषु म्रियते कश्चिज्जायमानस्तथाऽपरः।
जाता म्रियन्ते बहवो यौवनस्थास्तथाऽपरे।
मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु।।
को जन्मनो नोद्विजते स्वयम्भूरपि यो भवेत्।
कुतस्त्वस्मद्विधस्तात मरणस्य वशानुगः।।
नित्याविष्टो भयेनाहं मनसा कुरुसत्तम।
मुहूर्तमप्यहं शर्म न विन्दामि महामते।।
कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः।
अन्नैर्बहुविधैः पुष्टं वस्त्रैर्नानाविधैर्वृतम्।।
चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम्।
यानैर्बहुविधैर्यातमेकान्तेनैव लालितम्।।
यौवनोद्धतरूपाभिर्मन्दविह्वलगामिभिः।
इष्टिभिरभिरामाभिर्वरस्त्रीभिरयन्त्रितम्।।
रमितं सुचिरं कालं शरीरममितप्रभम्।
अवितृप्ता गमिष्यन्ति हित्वा प्राणांस्तथाऽपरे।।
स्वर्गेऽप्यनियता भूतिस्तथैवाकाशसंश्रये।
देवाऽप्यधिष्ठानवशास्तस्माद्देवं न कामये।।
कामानां नास्त्यधिष्ठानमकामस्तु निवर्तते।
लोकसङ्ग्रहधर्मास्तु सर्व एव न संशयः।।
डोलासधर्मा धर्मज्ञ ऋषिर्द्वैपायनोऽब्रवीत्।
अस्मात्को विषमं दुःखमारोहेत विचक्षणः।।
विद्यमाने समे मार्गे डोलाधर्मविवर्जिते।
को ह्यात्मानं प्रियं लोके डोलासाधर्म्यतांनयेत्।।
चराचरैः सर्वभूतैर्गन्तव्यमविशङ्कया।
अस्माल्लोकात्परं लोकमपाथेयमदैशिकम्।
घोरं तमः प्रवेष्टव्यमत्रातारमबान्धवम्।।
ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम्।
अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः।।
ततस्तेनैव पश्यन्ति प्राप्नुव्ति परं पदम्।
रक्षते भगवान्विष्णुर्भक्तानात्मशरीरवत्।।
कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु।
मातापितृसहस्राणि सम्प्राप्तानि मया गुरो।।
स्नेहापन्नेन पीतास्तु मातॄणां विविधाः स्तलाः।।
पुत्रदारसहस्राणि इष्टानिष्टशतानि च।
प्राप्तान्यधिष्ठानवशादतीतानि तथैव च।
न क्वचिन्न सुखं प्राप्तं न क्वचिच्छाश्वती स्थितिः।।
स्थानैर्महद्भिर्विभ्रंशो दुःखलब्धैः पुनः पुनः।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्।
अध्वगानामिव पथि च्छायामाश्रित्य सङ्गमः।।
एवं कर्मवशो लोको ज्ञातीनां हितसङ्गमः।
विश्रम्य च पुनर्याति कर्मभिर्दर्शितां गतिम्।।
एतदीदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम्।
को न बिभ्येत्कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात्।।
बुद्धिश्च मे समुत्पन्ना वैष्णवे धर्मविस्तरे।
तदेष शिरसा पादौ गतोऽस्मि भगवंस्तव।
शरणं च प्रपन्नोऽस्मि गन्तव्ये शरणे ध्रुवे।।
जन्ममृत्युजराखिन्नस्त्रिभिर्दुःखैर्निपीडितः।
इच्छामि भवता त्रातुमेभ्यस्त्वत्तो महामते।
तस्याद्य युगधर्मस्य श्रवणात्कुरुपुङ्गव।।
एतदाद्ययुगोद्भूतं त्रेतायां तत्तिरोहितम्।
स एव धर्ममखिलमृषिर्द्वैपायनोऽब्रवीत्।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्त्रिंशोऽध्यायःठ।। 36 ।।