अनुशासनपर्व

अध्यायः ३३

Anusasana Parva (Sanskrit) · Adhyaya 33
अक्षर का आकार

`युधिष्ठिर उवाच।

प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह।
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः।।

ये चाप्यन्ते परे तात कृतघ्ना निरपत्रपाः।
तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्वतः।।

भीष्म उवाच।

कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः।
मातापितृगुरूणां च ये न तिष्ठन्ति शासने।
क्रिमिकीटपिपीलेषु जायन्ते स्थावरेषु च।।

दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।।

वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः।
वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः।।

तस्मिंश्च तप्यति तपो वासवो भरतर्षभ।
ववर्ष समुहद्वर्षं सविद्युत्स्तनयित्नुमान्।।

तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः।
निमीलिताक्षस्तद्वर्षं प्रत्यगृह्यत वै द्विजः।।

तस्मिन्पतति वर्षे तु शीतवातसमन्विते।
विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः।।

ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि।
कारुण्यात्तस्य धर्मः स्वमानृशंस्यमथाकरोत्।।

चिन्तयानस्य ब्रह्मर्षि तपन्तमतिधार्मिकम्।
अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा।।

स्वं रूपं माहिषं कृत्वा ********* मनोहरम्।
रक्षार्थं वत्सनामस्य चतुष्पादुपरिस्थितः।।

यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम्।
ततो महिषरुपेण धर्मो धर्मभृतांवर।
शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ।।

स्थितेऽस्मिन्वृष्टिसम्पाते वीक्षते स्म महातपाः।
दिशश्च विपुलास्तत्र गिरीणां शिखराणि च।।

दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम्।
जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत्।।

अचिन्तयद्विस्मितश्चि विप्रः प्रमुदितोऽभवत्।।
अचिन्तयद्विस्तितश्च वर्षात्केनाभिरक्षितः।
ततोऽपश्यत्स महिषमवस्थितमदूरतः।।

तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः।।

अतो नु भद्रमहिषः शिलापट्टमवस्थितः।
पीवरश्चैव बल्यश्च बहुमांसो भवेदयम्।।

तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः।
कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः।।

निष्कृतिं नैव पश्यामि कृतघ्नानां कथञ्चन।
क्रते प्राणिपरित्यागाद्धर्मज्ञानां वचो यथा।।

अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम्।
कृतघ्नतां च सम्प्राप्य मरणान्ता च निष्कृतिः।।

आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम्।
तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत।।

स मेरुशिखरं गत्वा निस्यङ्केनान्तरात्मना।
प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः।
निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित्।।

धर्मि उवाच।

वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष।
परितुष्टोस्मि त्यागेन निस्सङ्गेन तथाऽऽत्मनः।।

एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम्।
न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः।।

यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः।
निवर्तस्व महाप्राज्ञ् पूतात्मा ह्यसि शाश्वतः'।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः।। 33 ।।